________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
तइओ ऊसासो अनेकनदीरूपं उररीकृतं नगरवीथिभिः । उन्नीरा: सम्भूता: क्षणेन तलिमनीराः अवटाः । उत्प्रवाहा जाताः जलराशि धारयितु अक्षमाः तुच्छास्तटाकाः । प्रतिपूर्णाः निम्नगा: विकटतटाः सञ्जाताः । नष्टं तप्तेनामधेयम् । कर्णं गतः सर्वेषां सर्वतः समय-मधुरो दर्दु राणां रावः । विनिद्रा जाता चिर-मूच्छिता जीवन-धनं प्राप्य वनराजी। कृता कृषिकारैः कृष्युपकरणैः सार्धं बलीवर्द-पूजा। लक्षित-नक्षत्रबलाः गृहीत-शुभशकुनाः केदाराभिमुखं निर्गताः एते बीज-वपनार्थम् । अहो ! सर्वाङ्गीणं सौन्दर्य प्रस्तृतं समन्ततः ।
इत: सुविहित-प्रत्यूष-कालिक-धर्मकार्यो जिनदत्तः स्कन्धारोपितकुठारश्चलितः काष्ठहारकैः सार्ध काष्ठभारं नेतु वनाभिमुखम्, परन्तु सुदुर्लभा जाता शुष्क-काष्ठ-सम्प्राप्तिः तादृशे प्रावृट्काले । यत्र पश्यति तत्र व परिधृत-हरित-कुर्पासा राजते पृथ्वी। शुष्का कुटिला अपि लब्धाभिनव-कुड्मला शोभते वृक्षाणां आली। कुड्डं (आश्चर्यम्) नास्ति अवकाशः किल शुष्काणां वृक्षाणाम् । अस्ति नियमो जिनदत्तस्य हरित-वृक्षान् छेत्तु गृहीत-द्वादश-श्रावक-व्रतेषु । बहु गवेषितमपि न प्राप्तं शुष्कं काष्ठं कुत्रापि एतेन । सम्प्रति किं कर्त्तव्यमिति चिन्त परः संवृत्तः सः । रक्षिते व्रते न सुरक्षिता तिष्ठति आजीविका । अन्यैः काष्ठहारकै विशदं कथितम्-"भद्रोऽसि त्वम्, न जानासि यत्
सहइ (पा० १५२) ६ कुडिल्ला-कुब्जा : (दे०) 'टेढा मेढा' इतिभाषा ७ शोभते + आश्चर्यम् (दे०) ६ विशदम् ।
For Private And Personal Use Only