SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिइओ ऊसासो जीवनं यापयिष्याव: । पलायितं रिक्थं न दुःखमिदं, परं मा गच्छतु आत्मीयं धनं स्वाभिमानम्। किं तेन तडितशिरसा श्वान-जीवनेन यत्र नास्ति नाममात्रमपि मनुज-गुण-मूल्याङ्कनम्" । 'आर्यपुत्राः प्रमाण' इति कथयन्त्या भानुमत्या मौनमालम्बितम् । सर: पालिगत-वटवृक्षस्य अधः अतिवाहितः आभ्यां मध्यन्दिनतप्तिसमयः । अपराह्न पुनः प्रस्थितौ एतौ दक्षिणस्यां दिशि । व्यतीतायां मुहूर्तमात्रायां रजन्यां लब्धः दम्पतीभ्यां सुरक्षितः एक: वननिकुञ्जः। तत्र गृहीता आभ्यां पथविश्रान्तिः । वनफलैः कृता उदरपूर्तिः । प्रस्तृता कदली-दलानां शय्या। कृतं शयनं तत्र । परन्तु नागच्छति पुत्र-विरह-विद् ता निद्रा । जातु अक्षिनिमीलनं लभमानी अपि प्रत्यक्षं पुत्र प्रेक्षमाणौ कथयत:-"पुत्र! मा रोदिहि जनन्युत्सङ्गसुख-वञ्चितः त्वम् । आशा-समीपितः न सोऽपि समयो दविष्ठः यत्र अस्माकं चिरप्रतीक्षितो मेलः सम्भावी। दुविधोऽयं कालः वेलाविपाकेन बुबुद्-विलायं विलीनो भविष्यति । स्वयं नष्टाः भविष्यन्ति सर्वेऽपि प्रतिपक्षाः संयोगाः' एवं कथयन्तौ कल्पयन्तौ यावत् जागरूको भवतः तावत् पुत्र असाक्षात् कुर्वन्तौ सर्वमिदं स्वप्नरूपमिति मन्वानौ विधि उपालभेते। एवं पार्वे परिवर्तमानाभ्यां आभ्यां यथा कथञ्चिद् रजनी उपप्रभातं नीता। प्रात्यहिकं प्रत्यूष-कालिकं आवश्यक सामयिकादि-कृत्यं श्रद्धया भक्त्या अनुष्ठितं दम्पतीभ्याम् । आपत्-कालेऽपि (पाइयलच्छी-५७०) ७ उपालभन्ते 'उपालम्भेझङ्ख-पच्चारवेलवाः (हे० ४-१४६) ८ उपप्रभातम् : प्रात्यहिकम् । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy