SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिइओ ऊसासा अकथनीया मन्ये लज्जा पारं नीता । त्रिचतुर्गव्यूतिप्रमाणं पन्थानं प्राप्तयोः एतयोः मार्तण्डोदयो जातः । "श्रान्तासि कोमलाङ्गि ! किम प्रलम्ब अध्वानं व्रजन्ती ? तिष्ठामः किं विश्रमण-निमित्त कुत्रापि ? महर्मुहुःपरिपृच्छति जिनदत्तो रत्नपालमातरम् । _ "नूनं आर्यपुत्राणां मुखपङ्कजं खिन्नं दृश्यते, तस्मात् यूयं महान्तं पथखेदं अनुभवथ, इति मया अनुभूतम्" प्रत्युत्तरितं विनयवाहिन्या वाचा भानुमत्या। "प्रिये ! नाहं किञ्चिदपि निगम-गमन-खेदं वहामि, किन्तु..." विरमितः अग्रतः वक्तु श्रेष्ठी। "किं किं खेदकारणं, कथं 'किन्तु' व्याहृत्य विरमितः अग्रतो वाग्विन्यासः ? किं स्मृतिगतः जीवनाधारः प्रियः पुत्रः ?" पृष्टं वाष्पं मजन्त्या पत्न्या। "स्खलितासि रत्नमातः ! पृच्छन्ती त्वम् । कदा स विस्मृतः तस्मात् संप्रति स्मृतिं गतः ? वाष्पजलाकुललोचनेन पत्या एको दीर्घनिःश्वासो मुक्तः । इत्थं दम्पती परस्परं पुत्रविरहेण दुःखं प्रकटयन्ती प्रतिसंकथं प्रियं पुत्र स्मरन्तौ पथच्छेदं कुर्वाते। मार्गे समागता एका सरसी। मनोहरं विजनं स्थानं प्राप्य जम्पती तत्र विश्रान्तौ जातौ । अनुष्ठितं ताभ्यां सकलं प्राभातिक कृत्यम् । पारितं सम्यक् नमस्कार-सहितम् । गृहीतः किञ्चित् प्रातराशः । मध्यशर्वर्यां चलितौ एतौ श्रान्तौ परितान्तौ इह विश्राम्य किञ्चित् आश्वस्तो भूतौ । ‘मा पृष्ठतः केऽपि श्रेष्ठिनं णिव्वरः (हेम० ४-३) ७ नोकारसी ८ प्रातराशः 'जलपान-सिरावण' इतिभाषा ६ पयट्टआ-चलिआ १० विश्राम्य, विश्रमणिन्वा० । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy