________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः उच्छवासः
प्रायशः गतानुगतिकाः लोकाः । अननुकूले दैवे सर्वाङ्गीणे विपत्समयेऽपि सुखसमयनिर्वहणीयं परम्परा-प्रतिष्ठापितं क्षणिक-गौरवदर्शक आडम्बरवत कार्य नं परित्यक्तु इच्छन्ति अभिमानधनाः जनाः । श्वः किं भविष्यति' इति न परामृशन्ति आयतिकालं अप्रक्षमाणानि मानान्धलोचनानि ।
जिनदत्तेनापि विहितः पितृ-पितामह-गौरव-गजितः सप्तमासिको गर्भमहोत्सवः । भोजिता: नानाविधअशन-पान-खादिम-स्वादिमैर्बन्धुजनाः । सम्मानिताः यथोचितसम्मान-दानेनः पूर्वजाः पूज्याः । सन्तोषिताः पुनः कुलानुरूपं वितरणेन मङ्गलपाठकाः कुलगुरवोऽपि ।
स्वे (हे० २-११४) ३ उत्तरकालं, यथा-'आयइ अज्जंतकालं च' (पाइयलच्छी ६३५) ४ पु. न. गर्भमहोत्सवः।
For Private And Personal Use Only