________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो
प्रस्थापितव्यः । यदा स तत्र धनं अर्जयित्वा निजं पुरं प्रत्यावलितः सन् सवृद्धिकं गृहीतं धनं प्रत्यर्प्य निजं पैतृकं गृहं गन्तुमर्हो भविष्यति ।" एतादृशः उभय-सम्मतः लेखः पञ्च- नगर प्रमुखाणां हस्ताक्षरैः सत्यापितो गृहीतो जिनदत्त ेन मन्मनेन च । तद्-विनिमयेन प्राप्तं - जिनदत्त ेन दीनार - सहस्रम् ।
इतरच चिरं प्रतिपालयति पति-प्रवेशं अर्थ - चिन्ता - संतप्ता भानुमती । कथं न समागताः आर्यपुत्राः द्रविणं गृहीत्वा ? कि स्पृष्टा दारिद्रय ेण अस्मत्कृते सर्वापि वसुन्धरा ? किं सर्वे विस्मृता कृतज्ञता ? समैः सहचरैः अपि प्रमुक्ता अक्षिलज्जापि ?
1
तत्क्षणं म्लान- वदनारविन्दा शनैः शनैः भवनं प्रविशन्तः पतिदेवाः दृष्टिपथमवतीर्णाः मार्ग प्रेक्षमाणायाः तस्याः । झगिति सम्मुखं आगच्छन्त्या तया 'किं भूतं' इति अधृतिमत्याः पृष्ठम् ।
३७
विहिताकरणीय कार्येण बाध्यमानः श्रेष्ठी तूष्णीको जातः । 'मम विहितं कृत्यं मातृहृदया भार्या अनुज्ञास्यति न वा' इति शङ्काकुलो जातः । अत्रान्तरे पत्या यथाकृतं कार्यं प्रियायाः पुरतः यथातथं प्रादुष्कृतं प्रत्यर्पितं पुनः दीनार - सहस्रम् । अवसरज्ञा विनयस्वभावा भानुमती 'आर्यपुत्राः प्रमाणम्' इति वदन्ती मौनावलम्बिनी जाता ।
इति श्रीचन्दनमुनि - विरचितायां पुत्रप्रार्थन - यक्षदर्शन ऋद्धिक्षयादिभावसंयुक्तायां रत्नपालकथायां
प्रथमः उच्छ् वासः समाप्तः ।
१ प्रत्यर्प्य २ पैतृकम् ३ सत्यापितः - प्रलोकितः ४ तद्विनिमयेन ५ प्रतिपालयति ६ स्पृष्टा ७ अस्मत्कृते ८ पामुक्का-परित्यक्ता, यथा-- पामुक्कं, विच्छड्रिढयं, अवहत्थियं, उज्झियं चत्तं ( पाइयलच्छी १३८ ) ६ अधुतिमत्याः धृतेहि: ( है ० २-१३१) १० बाध्यमानः ११ तूष्णीकः - मौनी १२ अनुज्ञास्यति ।
For Private And Personal Use Only