________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो यथाह गृहीतु शक्नोति भवान् । हन्त ! एतादृशी विद्यते मे जीवनसङ्गिनी प्रतिज्ञा।"
म्लानीभूत-वदन-कमलेन जिनदत्तेन भणितम् - "अरे ! रक्षणार्ह यदि भवेत् वस्तुजातं तदानीं तद्विनिमयेन सन्ति शतं दातारः अस्यां नगर्याम् । इदमेव महत्कष्टं यत् नास्ति किमपि तादृशं वस्तु । भ्रातः ! ततः किञ्चित् पुनरपि दत्तावधानो भव ।"
"अनुपायोऽस्मि अहमत्र, किंबहुना ! भवति मम प्रतिज्ञा-भङ्गः । तस्माद् व्रजतु अन्यत्र यथासुखम्, सन्ति अनेके उदारमानसाः धनिनो नगरे"-स्फुटं कथितं वज्रकठोरेण मन्मनेन ।
'कुत्र परत्र गन्तव्यं'-इति चिन्तापरः श्रेष्ठी अन्ते गर्भगतपुत्रविनिमयेन द्रविणं गृहामीति कृतनिश्चयो जातः । किञ्चिद् विमृश्य जिनदत्तेन दीर्घनिःश्वासेन साधं प्रकटीकृतम्- “सखे ! यदि न इच्छसि विनिमयेन विना किमपि दातु तदा मम भार्याया गर्भ रक्षित्वा दातव्यं यथाहं धनम् ।"
आकर्ण्य जिनदत्तस्य भणिति तत्कालं ससम्मदं सम्मतो मन्मनः । साधु निर्णीतं सहचरेण । अपत्य-विनिमयेन यत् किमपि इच्छसि तद् गृहाण, अविलम्बितं दातुमना अस्मि।
तत्क्षणं जातः एकः प्रतिज्ञालेखः, यथा ..."जन्मानन्तरं पुत्रो मन्मनगृहे पुत्ररूपेण वृद्धि लप्स्यते । विनिवृत्त-बालभावः कृतसुष्टु-विद्याध्ययनो यदा भवेत् तदानीं मन्मनश्रेष्ठिना स धनं अर्जयितु प्रवासे
१ रक्षणार्ह २ वज्जरिअं-कथितम्, यथा-वज्ज रिअ-सिद्ध-सूइय-उप्फालिय-पिसुणियाइं साहिअयं (पाइयलच्छी १४५) । ३ सखे ! ४ सहर्ष ५ प्रतिज्ञालेखः ६ प्रेषणीयः।
For Private And Personal Use Only