________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो त्वां आशायाः आलम्बनं ज्ञात्वा अत्र आगतः । क्रियतां सामयिक साहाय्यं किञ्चित् । यथा मे आपन्नसत्वायाः भार्यायाः सप्तमासिकः गर्भमहोत्सवः सुसम्पन्नः भवेत् । त्वादृशानां कृते न किमपि दुष्करम् । सखे ! कः प्रविशति कस्यापि देहलीदेशं गाढकारणं विना याचितुम् । एवं वदन श्रेष्ठी वाष्प-जलाकुल-लोचनो जातः।
श्रुत्वा जिनदत्तस्य प्रार्थनं कृपणमनाः मन्मनो विचार-निमग्नः जातः । 'किं प्रतिवचनं दातव्यं' इति विमर्शनपरः संवृत्तः । 'आहारे व्यवहारे च व्यक्तलज्जेन भवितव्यं' इति चिन्तयित्वा मस्तकं धुन्वन् मन्मनः अवादीत्-"मित्र ! निपतितोऽस्मि अप्रेक्ष्यमाण-निःसरणभार्गे चिन्ताजाले । एकतः मे अद्यप्रभृति पालितं अदानव्रतम्, अन्यतः परम-सहचरस्य सामयिकं प्रार्थनम् । 'किं करोमि ? कुत्र व्रजामि ?' इति न निर्णयति मे मुह्यत् मानसम् । जानामि अहमपि विपद्-वशंवदानां स्थिति, तथापि असमर्थोऽस्मि स्निग्ध ! अस्मिन् विषये किमपि कत्तम्।
अपा-विनत-कन्धरः जिनदत्तः पुनरपि भणति-"भ्रातः ! नाहं दानरूपं धनं इच्छामि, किन्तु उद्धार-रूपेण यदि दातुइच्छसि तहि दर्शय उदार-भावनाम् ।"
प्रकृति-महालुब्धो मन्मनः आयति-प्रापणीयं धनं शङ्कमानः पुनरपि कथयितु लग्नः-“बन्धुवर ! किमपरं भग्यते, वस्तुविनिमयेन विना किमपि दातु अक्षमोऽस्मि अहम् । वस्तु-परावर्तेन यद किमपि
-निःसरणमार्गे ७ निर्णयति ८ स्निग्ध ! मित्रमित्यर्थः ६ अपाविनतकन्धरः १० भ्रातः ! 'नाम्न्यरं वा (हे० ३-४०) इति सम्बोधने वाऽरम्, यथा-है पिअरं! हे पिअ ! ११ भण्यते ।
For Private And Personal Use Only