________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो
२७
तत्रगता सम्पद् उत्तमणैः अधिकृता । भूमिगतं द्रविणमपि अदृष्टं केनापि अपहृतम् । एतावता जिनदत्तः स्तोक-समयेऽपि निस्वो जातः । श्रेष्ठिना चिन्तितम् -- "हरे ! किमेतद् जातम् ? कीदृक्षा वंशपरम्पराञ्चिता श्रीः अभ्रविलायं विलीना। विचित्र विविलसितम् । स्वप्नेऽपि अलक्षिताः वासराः प्रत्यक्षं समवतीर्णाः । अतीव प्रत्यभिज्ञाताः स्नेहिनोऽपि विगलित-सौहार्दाः संवृत्ताः ।'
धिग् । धिग् । स्वार्थपरा जगतः प्रीतिः । कः कस्य इति न कथयितु शक्यम् । तथापि कीदृशं ममत्वम् ? विचित्रा मूर्छा ! अव्याकर्त्तव्या आसक्तिः ! अहो ! वड्डखेड्डं (महत्कौतुकं) एतत् । ये मम सकाशात् अत्यन्तलधुभुताः, तुच्छाः, अकिंचना: गुरुत्वं गताः । “यावज्जीवं न भवत: उपकारं विस्मरिष्यामः” इति वदन्तः सन्तः अधुना सर्वेऽपि विमुखा विदूरगाः जाताः । नूनं न कस्यापि दोषः. भवितव्यतायाः चापल्यमिदम् । अथवा न आदिष्टं कि पूर्वमेव यक्षपुङ्गवेन ? तस्मात् अलमत्र चिन्तया । तितिक्षामहे प्राप्तकालं विपदम् । काराकृष्टं कष्टं कथं अन्यथा भविष्यति ?
समागतः सप्तमो मासो गुविण्याः भार्यायाः । प्रतिदिनं लब्धाऽशुभोदन्तेन उत्रस्तापि सा गर्भगतं तेजः प्रक्षमाणा अन्तः सुखमनुभवति । एकदा समयज्ञया भानुमत्या पतिदेवं प्रतिनिवेदितम् “आर्यपुत्र । प्रवर्त्यते मे गर्भस्य सप्तमेन मासेन, कि न अधिगम्यते भवता पुत्रनिमित्तं किमिपि अनुष्ठानम् ? कीदृशी अस्मदीया नगरे प्रतिष्ठा ?
वड्डखेड्डमिति, देशीयः शब्द : ५ प्राप्तकालं ६ कराकृष्टम् ७ लब्धाऽशुभोदन्तेन ८ बुन्ना-उत्त्रस्ता ६ प्रवर्त्यते १० अधिगम्यते ११ अस्मदीयः ।
For Private And Personal Use Only