________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो
सकज्जल-वाष्पनीरेण उज्ज्वलं गण्डतलं मलिनं कर्तु लग्ना । अलाहि (निवारण) अनेन मनोरथ-शून्येन जीवनेन, इति हिमानी-दग्धा बिसिनीव विलीन-सुषमा जाता । निःश्वासोच्छ्वासमती अपि लोहकारचर्मकौशिका इव प्रकट-चेतन-केतना अपि चेतना-रहिता निवृत्ता।
अहो अलक्षितं खु (निश्चये) मोहमहाराजस्य विडम्बनम् ! पुत्रपौत्र : परिवारिताः अपि खिद्यन्ते, विरहिता अपि । दुरधिगमा किल मोहमदिरायाः तन्वी अज्ञानरेखा । सुख-संकल्पितेऽपि दुःखं, दुःखायितेऽ पि सुखं संगच्छते । वस्तुतः पौद्गलिकं आसक्ति-पर्यस्तं किं सुखं, किं दुःखम् ? इहगतः उत्साहोऽपि परिणति प्राप्तः प्रत्यक्ष शोकाश्लिष्टः । हन्त ! तथापि कषाय-कलुषितो जीवः न यथातथ्यं जिन-दर्शितं धर्म श्रद्धत्ते, प्रत्येति, रोचते च ।
इतः एकपदे तत्र जिनदत्त: श्रेष्ठी प्रेयसी-ससीममागतः । अश्रुस्नातं तस्याः म्लानं मुख-कमल प्रक्ष्य किमपि अशोभन मिति शङ्कितः अतुलां वेदनां अनुभवन् सप्रणयं मधुर-मधुरया गिरा कथयितु प्रवृत्त:- "हे मानिनि ! कस्मात् त्वं अद्य विमनायमाना लक्ष्यसे ? को नु एतादृशः मन्दभाग्यो जनः, येन भवत्याः मनः प्रतीपितम् ? झगिति भण, तस्य दुष्टाक्षर-घटितं नामधेयं, यथा अहं तं निगृण्हामि । कृतदुस्साहसस्य कठोर-प्रायश्चित्त-दानेन तस्य दर्प अपसारयामि । कोमलकपटेन अधर-स्थितान् वाष्प-बिन्दून् मृजन
६ तन्वी 'तन्वीतुल्येषु' (हे० २-११३) ७ दुःखायिते ८ संगच्छते 'समा अभिड: (हे० ४-१६४) ६ आसक्ति-पर्यस्तं १० उत्साहः । वोत्साहे थो हश्चरः (हे० २-४५) ११ आश्लिष्टे ल धौ (हे० २-४६) १२ एकपदे-सहसा १३ प्रेयसीसमीपम् १४ 'दे' सम्बोधने १५ 'इर' किलार्थे १६ प्रतीपितं-प्रतिकूलतां-नीतम् १७ झगिति १८ अपसारयामि १६ कोमलकपटेन (रुमाल इतिभाषा)।
For Private And Personal Use Only