SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्य कारकस्य प्रशस्तिः श्रुत्वा चरितमेतद् जगद्वैचित्री विज्ञाता भवेत् । चापल्यं लक्ष्म्याः स्वार्थपरं बन्धु-प्रेम च ॥ १ ॥ ततो धर्मकार्ये च भव्यानां भावना स्थिरा भवति । धर्मात् सर्वेषां सुखानां शोभना प्राप्तिः ।। २॥ कि बहुना धर्म एव भव्यैः सर्वदा स्वयं सेव्यः । अध्यात्म-सुख-निदानं त्रैलोक्ये सारभूतो यः ॥ ३॥ तेरापथस्य प्रथम आचार्यो भिक्ष नामको जातः । धीरो जलधि-गभीरोऽस्खलिताचार-संयुक्तः ॥४।। पृथक् पन्थाः मोक्षस्य च संसारस्य च तथा पृथग् मार्गः। एकीभवन्ति न कदा, इति व्याकरणं कृतं येन ।। ५ ।। पाप-कारणं रागो, मूलं धर्माणामस्ति जीव-दया। कथं नु मिश्रीभावं लभेते ते, कथितं येन ।। ६ ।। नाना-विधानि पुनरपि दारुण-कष्टानि येन सोढानि। तथापि न सम्यगमार्गः परित्यक्तो येन दृढधृतिना ॥ ७ ॥ भारमलस्तस्य शिष्यो गणपो जातो द्वितीयको धीरो। . ऋषिरायस्तृतीयः पुनर्भूतश्चतुर्थो जयाचार्यः ॥ ८ ॥ जातः पञ्चमपट्ट मघवगणेन्द्रो महाविमलहृदयः । षष्ठो माणकलालो डालमचन्द्रस्तु साप्तमिकः ॥ ६ ॥ सिद्धिपदासीनः पुनर्महाकृपालुश्च कालुगणनाथः । यस्य शासने वृद्धिमतुलां प्राप्तो गण एषः ॥१०॥ मन्दो मम सदृक्षो यस्यानुग्रहसुधा-सुसंसिक्तः। प्राप्तः साक्षरतामहो ! गुरुमाहात्म्यमवक्तव्यम् ।।११।। For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy