________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्तमो ऊसासो
२२६ वेषभूषामाकृति, वचनमाधुर्यं च वर्णयित्वा 'एतादृशः कोऽपि बालयोगो केनाऽपि दृष्टः, प्रलोकितः' इति प्रतिपृच्छति, तर्कयति च सोत्कण्ठम्, परं तादृशो दृष्टो, मिलितः, संगतः इति न ज्ञापयन्ति केऽपि । अन्ते हताशो भूत्वा पुनर्गृहमागच्छति, संकल्प-विकल्पेन अहोरात्र गमयति, न क्षणमपि रति लभते ।
एकदा स्वप्न-सङ्कतेन पुनरपि प्रत्यूष-समये गतो रत्नपाल. स्तस्य पथं निभालयितुम् । गृध्र-दृष्ट्या प्रलोकमानस्य राउल-सदृक्षः कोऽपि आगच्छन् नयनायनं गतः। अहह ! काप्यननुभूतपूर्वा सुखानुभूतिर्ह दयेनानुभूता । पुन: पुन: सूक्ष्मदृष्ट्या प्रेक्षमाणेन राउलो ऽयमिति विज्ञातं तेन । स एव स एव कथयन् तद् दिशि तत्क्षणं धावितः । अनुभूतां विरह-वेदनां विस्मरन् अहो ! ‘स्वागत-स्वागत' आम्रडयन् सम्मुखीनो जातः । अन्ते द्वावपि परस्परं बाहुनिष्पीडं मिलितो, अन्योन्य-वाष्पजलेन स्नातो, कुशलसमाचारैश्च अवगतौ जातौ । 'कुत्र मे प्रतीक्षणीयौ जननीजनको' इति पृच्छापरे रत्नपाले राउलेन कथितम्- "समीपे नगरोद्याने तिष्ठतः तवदर्शन-रणरणायितौ तौ। सम्प्रति सपरिकरं गन्तव्यं त्वया तत्र शीघ्रम् ।'' इति आकर्ण्य अत्युत्सुको जातो रत्नपालः। ततस्तत्क्षणं नगरमागतः । पुरे विस्तृता जिनदत्तागमन-प्रवृत्तिः । सर्वेऽपि कुटुम्बिनो, मित्राणि, नगर-प्रमुखाः, समानवयसश्च रत्नपालेन साधं जिनदत्ताभिमुखं गन्तु
For Private And Personal Use Only