SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठी ऊसासो २२३ विहित करणीय कार्यों आवां सहगमनार्थम् " झटिति उत्तरितं जिनदत्तेन । "त्वर्यतां ततः कस्य प्रतीक्षा विद्यते विरक्त-चित्तानाम् । गच्छामीदानीमेवाहं तु " - अग्रतः पदन्यासं कुर्वतेव राउलेन उदीरितम् । भानुमत्याऽनुगम्यमानमार्गः स्कन्धारोपितनिजभारः श्रेष्ठी स्फुरदधरपुट- स्फुट - नमस्कारोऽनुपदं राउलस्य गन्तुमारब्धः । त्वरितमागता एते शकटश्रेण्याः समीपम् । साऽपि सञ्चालिता राउलेन । "कथं मुधा भारः उद्यते परिणतवयसा भवता ? शकटेषु का गणनाऽस्य ? कृपया स्थापयितव्यो निस्संकम्" चोदितं राउलेनानाकुलम् । "नास्ति दुर्वहो भारो राउल ! सुखं तं वहामि अहम्' कथितमृजुमतिना श्रेष्ठिना । तथापि सति संयोगे भारनिर्वहणं न शोभनम् इति लपता राउलेन श्रेष्ठि-स्कन्धाद् निजहस्तेन भारपोट्टलिका अवतारिता, सुरक्षितं रक्षिता च शकटमध्ये | भानुमती - हस्तगतं किमपि लघुवस्तु तथैव स्थापितं साग्रहम् । उल्लंङ्घिते पुनः स्तोकमात्र पथि पुनः राउले - नोल्लपितम् - "अस्ति एकस्मिन् शकटे रिक्त स्थानम् कथं नास्यते युष्माभिस्तत्र ? न स्थविरैः पादगमनं सुशक्यमिति कृपया आसिका कर्त्तव्या ।" For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy