SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्यानां विस्तारः सुलभो येषां सकाशाद् भवति । सन्तु शरण्या उपाध्यायाः ॥४॥ कष्ट - कोटीः । विध्यापित - भव-तापाः येषां दर्शन मात्र क्षपयति भव्यानां इह तेषां साधूनां पद- कमलं को न प्रणमति ? ॥५॥ एवं परमेष्ठीनां पञ्चानां भाव- पूजनं कृत्वा । अहमल्पज्ञः काव्यं कर्तुं सहसा प्रवृत्तोऽस्मि ॥६॥ पर-पुद्गल सक्तानां कथं क्रियते सुखानां परिभाषा । दुःखानामपि तथैव च हन्त ! विचित्रोऽस्ति संसारः ॥७॥ किं हसनं, किं रोदनं कः शोकोऽत्र को नु आनन्दः ? पुद्गल-धर्माणां किल सर्वा क्षणभङ्गुरा लीला ||८|| कथमेकस्मिन्नपि जन्मनि जीवोऽनुभवति कर्म - वैचित्रीम् । कथा रत्नपालस्य च निदर्शनं सम्यगिहास्ति ॥ ६ ॥ काव्यच्छटा-विरहितमपि स्वभाव सरसं कथानकं मधुरम् । अनलंकृतोऽपि वालो नाकर्षण- कारकः किं नु ? ॥ १० ॥ , For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy