________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०३
छट्ठो ऊसासो अनुदिवसं गृह्णाति एकेनैव मूल्येन तम् । अनेकानि वर्षाणि व्यतिक्रान्तानि नान्यत्र गमन-प्रयोजनम् ।"
स्वगतं राउल:--"धिग् ! धिग् ! धिग ! धूर्तशेखरं; यो विप्रतारयति काष्ठमूल्येन चन्दनं गृह्णन् भद्र जिनदत्तम् ।"
इतो विक्रीय भारिकामागतो जिनदत्तोऽपि । उत्फुल्ल-वदनारविन्दा धावन्ती भानुमती सम्मुखं गता पतिदेवस्य । कथितो राउलभणितः प्रियपुत्रवृत्तान्तः । हर्षवंश-विसर्पहृदयः सविस्तारं पुत्रवृत्तान्तं श्रोतु उपराउलं स्थितः श्रेष्ठी। पृष्टा सर्वाऽपि प्रवृत्तिः । साधू प्रश्नोत्तरैः शनैः शनैः सर्वाऽपि प्रकटिता तेन प्रिय-पुत्र-कथा । उत्सुकं जातं हृदयं तं द्रष्टुम् । अद्वितीयः आनन्दः समुत्पन्नः ।
"स्तोकदिनानन्तरं अहमपि पश्चात् पुरिमतालं गन्तुकामोऽस्मि । भविष्यति नूनं संगतं गमनमस्माकम्" प्रतिवेदितमुपेक्षिणेव राउलेन ।
“साधु ! साधु ! सार्धमेव गमिष्यामः। तव संगमेन वयमतीवानन्दिता भविष्यामः' श्रेष्ठिना भणितम् ।
भिक्षाचर्याय श्रेष्ठिनाऽपि बहुनिमन्त्रितोऽनङ्गीकृत्य तेषां वचनं तत उत्थितः सः । 'सायं प्रातरिहागमिष्याम्यहं पुनरपि' एवं जल्पित्वा गोशीर्ष-वञ्चकं धनदत्तं गवेषितु अन्तःपुरं प्रविष्टः । चतुष्पथे स्थितेन तेनैतादृशी मधुरस्वरं वीणा वादिता, येन पुर-जनता स्वयमाकृष्टा । मृग-निकुरम्बवत् नाद-मोहितो जनानां संघातो राउलं परिवृत्य स्थितः। अनेकवस्तुभिरुपनिमन्त्रितोऽपि एष न गृह्णाति विशेषतः किञ्चित् ।
For Private And Personal Use Only