SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासो राउल :- " किं पृच्छसि मातः ! कथं स मातृपितृविहीनस्तत्र स्थातुक्षमः ? शीघ्रं प्रत्यावर्तितस्ततः आगतः सक्षेमं निजं पुरम् । प्रत्यर्पितं सर्वमृणम् । मन्मन- गृहात् तत्क्षणं समागतो निजं हर्म्य महता चडयरेण (आडम्बरेण सम्प्रत्यनुवेलं प्रतीक्षते स मातापित्रोः दर्शनम् ।" २०१ वहृद्वाणपनीरा भानुमती - "अहमेवास्मि पुत्र-विरहिता मन्दभाग्या भानुमती रत्नपाल जननी । धन्यमद्यतनं दिनं यस्मिन् कर्ण - सुखायिता यथातथं प्रियपुत्र-प्रवृत्तिः प्राप्ता । योगीन्द्र ! को जानाति कानि कानि कष्टानि सोढानि पुत्रविरहे । वयमपि निजं पुरं गन्तुमुत्सुका आस्म:, किन्तु अलब्धवृत्तान्ताः किञ्चित् शङ्किताः । सम्प्रत्यनायासं तवागमनं जातमत्र । मिलिता सर्वाऽपि सुतस्य वार्ता । अधुना वरिष्यामस्तत्र गन्तु पुत्र' च प्रेक्षितु सोल्लासम् । 7 - तत्र निपतितमेकं काष्ट खण्डं विलोक्य करेण गृहीतं, चातुर्येण घातं पृष्टं च किमिदम् - किमिदम् ? अम्ब !' सारल्यमूर्त्या भानुमत्या कथितम् - " नास्ति किमपि एतत् । एवमेव काष्टभारान्निपतितं किमपि । यतो रत्नपाल - पिता आनयति प्रतिदिनं शुष्क मिन्धनभारं मन्ये तस्यैव इदं शकलम् ।" रहस्यमजानतेव राउलेन तत् झोलिकायां संगोपितं, जल्पितं पुनः - "को गृह्णाति अनुदिवसं तमिन्धन भारं नगरे ? " भानुमती - " अस्त्येको नगरे स्नेहवान् महेभ्यो धनदत्तः । स For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy