SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६ छट्ठो ऊसासो पालितः पाठितश्च यदा द्वादश-वार्षिकोऽभूत् सः, तदा अधमर्णस्य मार्मिकशब्दस्ताडितो निज-वृत्तान्त-वेदिरो जातः।' अनिमिषनयना माता-"पश्चात्, पश्चात् किम् ?" राउल:--"हरिपोतवत् निसर्ग प्राप्तस्तत्क्षणं प्रवासगमन-तत्परः संभूतः । मन्मनेन भृशमनुरुद्धोऽपि न रुद्धः सः । अन्ते भूत्वा भाण्डं बोहित्थे निर्भयं सांयान्त्रिको जातः ।" (स्वगतम्) एतादृशं साहसं कृतं तेन दुग्धमुखेन ? पुलकितरोमराजिका भानुमती- "एवं ! दुष्करमाचरितं तेन, अस्ति अग्रेऽपि विज्ञानं तस्य ?" राउलः -- "कथं न ? शृणु, अद्यपर्यन्तं वृत्तान्तम्, गतः स कालकूटनामक द्वीपम् । पुष्पाणां संयोगेन नीरोगो जातो नृपतिः । विक्रयेणाऽपि भाण्डस्य लब्धोऽतुलो लाभः । तत्र परिणीता तेन राजपुत्रिका रत्नवती।" साश्चर्यमम्बा - "किं भणति राउल ! किं स जातो जनेश्वरस्य जामाता ? एतादृशो भाग्यवान् !" राउलः- "सत्यं सत्यं खलु मातः ! प्रकटितः स महाभाग्यवान् । किं न श्रूयते जन-कथनं यत् 'पुरुषभाग्यं केन ज्ञायते ?' हर्षाश्रुजलार्द्रलोचना भानुमती-"किं तत्र व तिष्ठति सः, वा आगतः पुनरपि निजं पुरम् ?" For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy