SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छट्ठो ऊसासो १६७ ___ ससंभ्रम भानुमती-'तदा तु अवश्यं ज्ञायते त्वया मन्मन-श्रेष्ठिनो गोत्रम् ?' राउल:-'नूनमस्ति स दृढमुष्टिर्नगर-लक्षितो महेभ्यः ।' हर्षवशोद्भिन्न-हृदय-कमला भानुमती-'किं ज्ञायते मुनिना तस्य पुत्रायितो रत्नपाल: ?' नव्यं भावभङ्गिमानं नाटयन् राउलः- "अम्मो ! (आश्चर्ये) कथं जानाति माता तं रत्नम् ? स एवास्ति मम परमप्रीतिपात्रमद्वितीयं मित्रम् । षण्मास-पर्यन्तं स्थितोऽहं तेन सार्धं अम्ब !" रणरणकं भजन्ती भानुमती-"किं सत्यम् ? तं जानाति राउलः?" एवं भणन्ती समीपमागम्य स्थिता । "अस्मादृशैः किमज्ञातं रहस्यम् ? जानामि तस्य सर्वमपि यथाजातं घटनाचक्रम् । मातः ! नास्ति स मन्मन-पुत्रः, किन्तु अस्ति स जिनदत्त-श्रेष्ठिनः कुलदीपो भानुमत्याश्च अङ्गजः ! दुविधिना पीडितौ मातापितरौ तं सप्तविंशति-वासरिकं स्थापनरूपेण मन्मनगृहे स्थापयित्वा अलक्षित-मागौं प्रवासं गतो" प्रादुष्कृतं सलक्ष्यं राउलेन । धतु मशक्यं चिरालब्ध-पुत्र-प्रवृत्त्यौत्सुक्यं वहन्ती भानुमती"ततः किम्, ततः किं राउल !" पुत्र-विरहाग्नि-तापोष्मायितं मातृहृदयं सुतस्य कुशल-कथासलिल-धाराभिः सलीलं विध्यापयन् राउल:-“मन्मनेन पुत्रवत् For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy