SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छ8ो ऊसासो १९५ 'न कथमुत्तीर्यते भदन्तेन ? कथं न गृह्यते भक्तिभरिता भिक्षा ? रुक्षाऽपि प्रेम-स्निग्धा इध्दा । निकृष्टाऽपि भक्ति-विशिष्टा मिष्टा" प्रत्युत्तरं प्रतीक्षमाणया भानुमत्या तर्कितम् । "न युज्यते हे मातः ! इदानीं माधुकरी । 'असाधारणां तव भक्ति प्रेक्षमाणेन मया अवश्यं गृहीतव्या सा। परन्तु प्रभुभक्ति-रसपानतृप्त मनसः मे नास्ति सूक्ष्माऽपि बुभुक्षा, पिपासा पुनः । का चिन्ता मुनीनां भोजनस्य ? यत्र व्रजति तत्रानेके दातारो हस्तगत-भिक्षा: प्रतीक्षन्ते। अम्ब ! निसृतोऽहं पुरिमतालात् किञ्चित्कालपूर्वम् । अनेक-ग्राम-नगर-पुर-पत्तनानि हिण्डन्नत्र समागतः । सुरम्य स्थलं निभाल्य विश्रमणार्थं तवोटजवेदिकायां स्थितः । प्रभोगुणगानेन लब्धाऽध्यात्म-विश्रान्तिः । भक्ति-युक्तेन तवामन्त्रणेन पुनः अतीव सन्तुष्टोऽस्मि'' प्रकटितं राउलेन निरपेक्ष-भावेन । श्रुत्वा पुरिमतालस्य नामधेयं अचिन्तनीयया कया आशा-रेखया स्पृष्टा भानुमती तत्क्षणं प्रष्टमारब्धा-"किं पुरिमतालादागमनं भवत: ?" राउल--"आम् ! ततः एव"। उत्सुकीभूता भानुमती-"उपलक्ष्यन्ते किं भदन्तेन तत्रगताः विशिष्टाः नगरमहत्काः ?" राउल:-"कथं न, चिरस्थित्याऽतीव परिचिताः मे तत्रगताः प्रमुखाः ।" For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy