________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
वर्णनातीता विश्व - वैचित्री । अविभावनीया भवस्य भावना । अत्र किं सुखं किं दुःखम् ? किं प्रियं किमप्रियम् ? के निजकाः, के परकीया: ? अव्याहृतोऽपि एकत्रीभवति मक्षिका - निकुरम्बो यत्र व दृष्टिपथं निपतिता गुडपिण्डलिका । तोयप्रतिपूर्ण तडागे सर्व दिग्भ्यः स्वयमवतरन्ति शकुन्ताः । अब्वो! (आश्चर्य) स्वार्थ प्रधानं जगत् न पुनः परमार्थ- प्रधानम् । हरे ! धवलमपि ज्ञायमानं कृत्यं किञ्चित् अन्तरभिलाष- कज्जलितम् । धन्यास्ते त्रिचतुराः प्राप्तार्था मानवाः जगत्यां यैः क्रियते निष्कामं सेवा ।
१६६
६
षष्ठः उच्छ्वासः
अर्जयित्वा अतुलां समृद्धि प्रत्यागतो जिनदत्तसुतस्तरङ्गमालितीरे इति आकर्ण्य प्रचुरा: नगर महत्काः बन्धवश्च रणरणकं प्राप्ताः
For Private And Personal Use Only