SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमो ऊसासो १५७ तयोग्य-सामग्रीभिः विभूषितः स अतीव सुभगः सर्वैः साश्चर्य प्रेक्षितव्यः जातः । पुनरपि समयज्ञ न नृपेण प्रासादे निमन्त्रितः जामाता, सूचितं पुनरित्थं-"जामातः ! कृतेऽपि आग्रहे न अत्र तव स्थातु समीहा, न पुनः निजां भार्यां सह नेतुम् । किं बलं चलति अस्माकं जामातुः उपरि ! शिथिलित-स्नेहानां प्रोषितानां द्वीपान्तर-गतानां क: विश्रम्भः प्रत्यावलनस्य । तस्य स्मारणार्थं एकः अस्मदीयो महादक्षो बालयोगी रत्नवत्याः बालसहचरः त्वया सार्धं प्रस्थाप्यते अस्माभिः । स यथासमयं श्वसुरालयस्य स्मृति कारयन् पुनरागमन-प्रेरणां च ददत् स्थास्यति । अस्माकं मानसमपि निर्भरं भरितं आशा-विजृम्भितं वय॑ति ।" "आम् अतिशोभनमिदम् । साध्वी योजना घटिता। न अत्र कस्यापि कापि बाधा ।" कथितं प्रतिपन्न-भावना-पूरितेन स्वरेण रत्नेन। इतश्च अद्भुत-मुखच्छवि-मोहनः प्रत्यक्ष इङ्गिताकार-लक्ष्यमानचातुर्यः बालोऽपि प्रशान्त-नेत्रनीलोत्पलः किमपि जपन् इव ईषत्स्फुरिताधरौष्ठ: ग्रीवा-स्थापित-रुद्राक्षमालः तत्रैव आगतः राउलः । सर्वेषां ससम्मानं लब्धप्रणामः उचितासने आसितः । तं निरीक्ष्य रत्नपालो रोमाञ्चकञ्चुकितो विस्मय-स्मेराननो भूतः । अन्वो ! ललिते बालकालेऽपि कथं एष लब्ध-वैराग्यः ? धन्याः अस्य मातर निहालिअऽस्थम्मि (पाइय० १३५) २ स्मृतिम् ३ इङ्गिताकारलक्ष्यमानचातुर्यः । ४ प्रशान्तनेत्रनीलोत्पलः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy