SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ पंचमो ऊसासो दीयं कार्य साधितं भवेत् ?" प्रवेदितं निजशक्ति-निदर्शन-तत्परेण योगिना। "किं अन्यद् युज्यते यदि एवं भवितु शक्येत ? दर्शनीयः एतादृशः यौगिक-विद्या-चमत्कारः परोपकृति-पण्डितेन मुनिना । नूनं वयं कृतार्थाः भविष्यामः ।” इति विज्ञप्तं साकाङ्क्ष जटिल मुखाकृति पश्यता प्रजापतिना। "किं मुधा गमितानि इयन्ति वर्षाणि मया वनं अटता, मौनमाचरता च यदि अहं ईदृशं क्ष द्र' कार्यमपि न साधयितुं शक्नोमि" सूचितं साभिमानं तपोधनेन। तत्क्षणं आहूता अनेन दुहिता स्वसमीपम् । निष्कासितं झोलिकातः जटिकायुगलम् । तस्याः एकस्याः सविधिप्रयोगेण वनिता नरत्वं आपद्यते । द्वितीयायाः प्रयोगेण पुनरपि सद्भावं आराधयति सा। कृतः प्राथमिक्याः प्रयोगः तत्कालम् । राउलयोगिरूपे रत्नवती तत्क्षणं परिवर्तनं प्राप्ता। खलु मणिमन्त्रौषधीनां अचिन्तनीयः प्रभावः' इति यथार्था उक्तिः साक्षात् सत्यापिता सर्वैः । धारितं काषायं कौशेयं दीप्रं उत्तरीयं राउलेन । आजानुलम्बायमाना शिथिला स्कन्धदेशमारोपिता मनोहरा काषायी कन्था। उत्तमाङ्गऽपि स्थापिता राउलमतानुरूपा फटाटोप-वजिता टोपिका । हस्तयोः गृहीता नानामधुर-स्वरालाप-मधुरा नवीना वीणा । अन्याभिः अपि सर्वाभिः For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy