SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमो ऊसासो १४६ हरे ! एतादृशी का त्वरा ? किमत्र प्रतीपम् ? कथं उद्विग्नं जामातृमनः ? आहूतः निजप्रासादे सस्नेहं स्वश्र्वा पुत्रसमानः जामाता सानुरोधं कथयितु आरब्धा-“हे जामातः ! न कथं लज्जिता भवति तव जिह्वा गच्छामि इति कथयन्ती ? एतादृशी हरिद्राराग-सदृक्षा तव प्रीतिः ? सम्प्रति एव विवाह-कार्य समाप्तं, न तस्य खेदः अधुनावधि उत्तीर्णः, कथं गमनप्रवृत्तिः प्रचालिता त्वया ? धिग् ! धिग् ! किं प्रवासिनां सौहृदम् ? कस्तेषां विश्वासः ? कस्तेषां सम्बन्धः ? एवमेव उत्ताम्यति तैः सार्धं मैत्री योजयन् । नो, न सम्प्रति गमनसम्बन्धिकं एकाक्षरमपि जल्पितव्यं, पश्चात् यथासमयं स्वयं वयं तस्मिन् विषये चिन्तयिष्यामः' इति कथयन्ती स्वश्रूः अश्रुजलाकुललोचना जाता। "नाहं अत्र सम्प्रति चिरायितुं क्षमोऽस्मि । पूर्वमेव मे कालातिवर्तनं जातं कृतनिश्चयानुसारेण । अस्ति मे तत्र अत्यन्त आवश्यक कृत्यम् । अप्राप्ते मयि विनष्टं भवति तत् सकलम् । तस्मात् कृपया मे एकाकिन: प्रत्यावलनं अनुमोदितव्यं सम्प्रति । पश्चाद् यथाकालं पुनरपि अहं अत्र शीघ्रमेव आगमिष्यामि" प्रकटितं सदाक्षिण्यं रत्नेन । 'एकाकिनः गमनम्' इति श्रुत्वा राजा अतीव खिन्नो जातः । कः विश्रम्भः प्रवासिनः, कदा पश्चात् आगच्छेत् ? प्रोषितस्य का भावपरिणतिः भवति इति केन ज्ञायते ? प्रोषितपतिकायाः रत्नवत्याः का भवतीत्यर्थः ४ योजयत् ५ मयि ६ खिन्न: ७ (दे०) प्रोषितस्य । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy