SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचमो ऊसासो नयनायनमागतः तत्प्रभृति नृपस्य हृदये निषण्णः स दुहितृ-प्रत्यर्पणार्थम् । नूनं अस्ति मे प्रेमसुधा-स्नपितायाः सुतायाः योग्यो रत्नपाल: कुमारः । न मया एतादृशः रूप-गुण-सुन्दरः परो वरो नरो दृष्टः । परन्तु प्रवासी एष कि प्रतिपत्स्यते तया साग्रहं पाणिग्रहणमिति चिन्ताकुलितः नृपः तूलशयनीये संविशन्नपि न लभते निशीथे निद्राम् । राज्ञा रक्षिता निजा भावना सचिवस्य समक्षम् । तेनापि अनुमोदितं 'उचितं प्रभोःचिन्तनमिति, कर्त्तव्यः प्रयत्नः, कदापि लभेत साफल्यं अत्र । एकस्मिन् प्रसन्नवातावरणे आकारितः विजने कुमारः । कुशलपृच्छनेन साधू दक्षतया पुरतः रक्षिता मनोभावना। नहि ननु अस्माकं भावना निष्फला भविष्यति इति प्रकटिता आशा। भीषणान्तकनिवारकं कुमारं प्रति किं प्रतिकरोमि इतः अन्यत् ? स्वप्नेऽपि अकितं अदृष्टं अविमृष्टं च श्रुत्वा नृपस्य मार्गणं अतीव विस्मितः चिन्तितश्च जातः कुमारः। किं करणीयं, कि उत्तरं देयमिति विकल्पना-वीच्याहतो भूतो हृदय-वीचिमाली । एकतः अप्राप्त-जननीजनकेन मया न दारपरिग्रहः कर्त्तव्यः इति निश्चयः, अन्यतः परमश्लाघनीय-नरनाथस्य अनिषेधनीयः अनुरोधः । उपनतः अत्र सर्प-छच्छन्दरिकायाः न्यायः । किमपि अजल्पन्तं तूष्णीभावमागतं एतं विलोक्य पुनः नरेन्द्रण साग्रहं पृष्टम्- "कथं तूष्णीकोऽस्ति कुमारः ? - ५ हृदयसमुद्रः ६ अनिषेधनीयः । 'निषेधे हक्कः (हे० ४-१३४) ७ अजल्पन्तम् । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy