________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
पंचमो ऊसासो लिता जाता तस्य सुखावहा प्रतिक्रिया। अननुभूतपूर्वं सातं वेदितं राज्ञा । अनेनं मह्य जीवितदानं दत्तमिति अतीव तुष्टो भूतो नृपो रत्नपालस्योपरि। कृता उचिता व्यवस्था । दापितं वसनाहं विशालं स्थानम् । सुस्थितं कृतं भाण्डम् । दत्तं राज्ञा राजसभायां आसनम्' प्रेक्षते तं भूपतिः कृपा-दृष्ट्या। शनैः शनैः परिचितः जातः तत्रगतस्थित्या कुमारः । सञ्चालितः व्यापारः । विक्रतु आरब्धं अतिलाभकरभावेन भाण्डम् । लब्धः अचिन्तितः लाभः । व्यतिक्रान्तः पाण्मासिकः कालः। गृहीतं योग्येन भावेन पुनरपि नवीनं तत्रसुलभं भाण्डम् । शीघ्रमेव निजं देशं गन्तव्यमिति चेष्टितं कुमारेण । परं विधिः किं अभिनवं घटयति इति निशामयितव्यं भव्यैः ।
अस्ति एका समय-कुशला विचार-दक्षा सुगृहीत-नानाविधशिल्पकला सप्तस्वरसाधनया सुविदित-गान्धर्व-विद्या विचित्र भाषापरिज्ञानविभूषित-काव्य-कलापा मूर्ता सरस्वती इव अदुष्टवर्णरूपा अनुपमेयाकृतिः अद्भुताकर्षणा सर्वाङ्गसुन्दरी मधुर-मधुरालापा गुणवती रत्नवती नाम नृपस्य दुहिता। सा यौवनं प्राप्ता पित्रोः चिन्ताकारणं जाता। अनेके कुमाराः तस्याः कृते सूक्ष्म विलोकिताः राज्ञा, परं न तत्र कुल-रूप-शील-विद्यादीनां यथेप्सित-गुणानां उपपत्तिः जाता। अयोग्याय यस्मै कस्मै नृपो न दातुमभिलषति । यत्प्रभृति सर्व-गुण-संयुतः सुरूपो विनयशीलो विवेकवान् रत्नपालो
For Private And Personal Use Only