________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
चोत्थो ऊसासो एतादृशी भिक्षा ? केवलं तृणं भुजानः अपि बर्करः कामेन प्रकामं पराभूतो भवति, तदा सरसं भुजानो योगी कथं ब्रह्मचर्य-वशंवदः ? मिथ्या कथनमिदम् यत् रसलोलुपोऽपि योगी। किं प्रयोजनं अस्माकं नाना-रस-व्यञ्जन-युतेन भोजनेन ? अस्माभिस्तु शुष्कं रुक्षं भोक्तव्यं, विजने वने स्थातव्यं, तीर्थ यात्रा च कर्तव्या । नूनं न भवति कदापि तपस्याविहीना कापि र.फला साधना' एवं कथयित्वा तत्र व पायसादिकं मुक्त्वा पश्चात् वलितः । तत् श्रुत्वा अहं तु उत्थम्भितः विस्मितस्तद्गुणरञ्जितश्च जातः । अब्बो ! कीदृशं वैराग्यम् ? अदभुता निष्पिपासिता, विचित्रा च विरक्तिः । निस्सङ्क मया तत्र व द्रव्यं अर्पितव्यम् । अलं विकल्पेन । तत्कालं तं अनुसरन् पुरस्य बहिः मठे महन्तस्य दर्शनं कृतम् । विरक्ति-विकसितो वार्तालापो जातः । मयापि न्याससुरक्षणार्थं विज्ञप्तः सः । 'अस्माकं किं प्रयोजनम्' इति बहुनिषिद्ध तेन । अन्ते अति आग्रहेण तेन स्वीकृतं मम प्रार्थनम् । अत्र न किमपि भयमिति निश्चिन्तः समुद्र अग्रतश्चलितः ।
पृष्ठतः महाद्रव्य-लोलुभेन महन्तेन सर्वेऽपि शिष्याः पृथक्त्वं प्रापिताः । मठ-प्रतोल्याः मुखमपि परावर्तितम् । सर्वेऽपि वृक्षाः छिन्नाः । निजं एक अक्षिः अपि स्फोटितम् । सर्वाऽपि लीला अन्यादृशी एव कृता।
किञ्चित् कालानन्तरं यदा अहं पश्चात् सुरक्षितं न्यासं गृहीतुकामः तत्र समागतः, तदा न किमपि उपलक्षितं प्राप्तम् । न महन्तेन वार्ताऽपि विहिता । 'विस्मृतोऽसि त्वं न अत्र स्वप्नेऽपि एतादृशी घटना घटिता' स्फुटं निषिद्ध तेन ।
For Private And Personal Use Only