SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चोत्थो ऊसासो १२५ गृहीत्वा प्रचलितः । पूर्वधूर्तेन वारितोऽपि अहं न तत्र स्थितः । तं अनुव्रजन् तस्य निलयं प्रविष्टः । तेन अह अतिमधुर-व्यवहारेण व्यवहृतः। मयापि निजं द्रव्यं दर्शयित्वा रक्षणार्थं आग्रहः कृतः, परन्तु तेन धूर्तेन स्फुटं अनिच्छा दशिता। तदानीमेव एको योगी भिक्षार्थं आगतः शङ्खं पूरयितु लग्नः । तं प्रेक्ष्य स अतीव उत्फुल्लो जातः । सभक्तिवन्दना कृता । धन्यं भागधेयं इति वदन् पायस-भिक्षया तस्य भोलिका पूरिता । अन्यानि अपि बहूनि सुमधुर-भोज्यानि समपितानि । गुरुझोलिको मोमुदितो योगी गुरु-ससीमं प्राप्तः । कामपि नवीनां रसाढ्यां भिक्षां निभाल्य जरण्ड: (वृद्धः) गुरु: विस्मयं प्राप्तः । अद्य कः एतादृशः सद्यस्कः दाता नगरे उत्पन्नः, येन ईदृक्षा प्रकामरसा रसवती भिक्षायां दत्ता ? प्रतिदिवसं तु त्वं शुष्कं रुक्षं अन्तं प्रान्तं च भोजनजातं आनयसि । न कदापि एतादृशं मनोज्ञ भोजनं लभसे । किं तत्र कोऽपि नवीनो भद्रो धनाढ्यो जनः स्थितः आसीत् ? अवश्यं रहस्यं विद्यते अत्र किमपि। शिष्येण 'हन्ता' कथयता प्रतिपन्नम् । गुरुणां कथितम्-"शिष्य ! झोलिकां गृहीत्वा तत्र व गन्तु त्वरस्व । मम प्रपञ्चितं प्रकटीकुर्वन् अतुच्छसाफल्यं लभस्व । 'गुरवः प्रमाणम्' इति वदन् त्वरमाणः शिष्यः सझोलिकः तत्रैव पुनरागम्य सखेदं वक्तु आरब्धः- "भक्त ! अद्य मया अनर्थः उपालम्भो गुरोः प्राप्तः । यदाहं भिक्षा नीत्वा गुरूपकण्ठं गतः । तव दत्तां सरसां भिक्षां प्रेक्ष्य विरक्तो गुरुः रक्तो जातः । क्रु द्धया वाचा उपालब्धु प्रवृत्तः- "मूढ ! कल्पते किं साधूनां For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy