________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चोत्था ऊसासो
१२३ तस्य पश्चात् अवलोकमानस्य अहं दृष्टिमार्गमवतीर्णः । हन्त ! अस्य प्रवासिनः प्रतारणार्थं एषा वन्दान्यता। कथं गृहीतव्यः मयाऽपि अवसरस्य लाभः ? इति निश्चित्य तत्क्षणं स निजमूर्धवेष्टने एक लघु तृणं संनिवेश्य पश्चाद् वलितः, दीनाननो भूत्वा कथयितु प्रवृत्तः- “हद्धी ! महान् अपराधः, अभूतपूर्वः मन्तुः, अक्षमणीया च मे अटिजर्जाता। भ्रातः ! अत्यन्त-दुःखितोऽस्मि । हा। यदा अहं दानं गृहीतु निम्नकन्धरो भूतः, तदानी अनाभोगेन एकं छदिकायाः तृणं मम उष्णीषे संलग्नम्। किञ्चिद् अग्रतो व्रजतो मम करः तृणसंयुक्तो जातः । तत्क्षणं अहं कम्पित-कलेवरः संवृत्तः । हा हा । अज्ञानतया किमिदं अघटितं घटितम् ? अद्यप्रभृति न मया कस्यापि अदत्तादानं गृहीतम् । अद्य प्रतिज्ञाभङ्गः अभूत् । 'न मूल्यवत् तृणम्' इति किमदत्तादानमिदम् ? एवं यदि लघु अपराधं न किमपि इति उपेक्षे तदानीं अनर्गलवृत्तिको भवन् सुवर्णावहरणमपि न दोषदुष्टं मन्येय । अव्वो ! ब्राह्मणस्य सर्वोऽपि क्रियाकलापः विलुप्तो भवेत् । अस्माकं भिक्षुकाणां कृते केवलं भिक्षाया एव अधिकारः । भिक्षासन्तुष्टा वयं परमानन्दिनः प्रतिपलम् । अस्माकं संग्रहेण धनस्य किं प्रयोजनम् ? इति व्याकुर्वन् तृणं हस्ताहस्ति प्रत्यर्प्य प्रत्यावलितः । तस्य अद्वितीयं सत्य-निष्ठं व्याकरणं श्रुत्वा अहं अतीव प्रभावितो जातः । अहो ! कीदृशः विप्रः अयं अलोलुभः, नीतिकुशलः, दृढधर्मश्च महात्मा विद्यते। यदि अहं अस्मै धनं समर्पयामि तदा न कापि अपहरणशङ्का समुत्थिता स्यात्, एवं विमृश्य एकपदे ततो धनं
For Private And Personal Use Only