SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चोत्थो ऊसासो ११७ शिरोमणिः) स्वं अनन्य-सत्यवादिनं दर्शयन् सत्य-धवलितयाललितया गिरा वक्तु आरब्धः--"बन्धुप्रवर ! किं कथितं भवता स्थापनरक्षणार्थम् ? न पुनः उदीरणीयमिदम् । मया पूर्वमेव शपथीकृतं उपधि-रक्षणम् । नूनं भद्रस्वभावेन सर्वं जगत् भद्र इति जानानेन मया रक्षितः कस्यापि महानुभावस्य न्यासः, परन्तु अति कटुकः तत्परिणामः यथाकथञ्चित् पारं प्रापितः । ततः पश्चात् न कदापि तादृशं कृत्यं कर्त्तव्यमिति प्रतिज्ञातं मया । ततः कृपया अन्यत्र गन्तव्यं न्यास-विन्यास-प्रतिज्ञया, नाहं कथमपि स्वीकरिष्ये इदम् । उत्कृष्टां तस्य सत्यनिष्ठां दृष्टि अनुभूय 'अब व रिक्थं रक्षामि' इति अहं अनुरोधं कर्तु प्रवृत्तः ! तस्मिन् समये एका बालिका घृतं ऋतु आगता। वञ्चकवृषभेण तेन मां प्रभावयितु एका निकृतिः स्फुटीकृता। यथा गृहीतं एकगुणं द्रव्यं तद्विनिमये दत्त द्विगुणं घृतम् । सर्पिः गृहीत्वा गता कन्या । विस्मितेन मया तत्कालं उदृङ्कितम् - अहो ! वाणिजोऽसित्वं यद् न जानासि वाणिजवृत्तिमपि । अरे ! द्रव्यग्रहणात् अर्पितं द्विगुणं आज्य, कथं अनवद्यमिदं कार्य यद् वणिकनामदूषकं मूढताविजृम्भृितं च । अनया प्रणाल्या कथं तव विपणिः नीवीं सुरक्षितां रक्षितु क्षमा ? "सत्यं वितर्कितं त्वया । हीरणां (लज्जां) अनुभवति मे मनः प्रत्युत्तरं दातुम् । परं किं कथयामि अस्ति मे एतादृशः दानशीलः स्वभावः, व्यापारेऽपि यो न विस्मृतो भवति । 'कथं कार्य चलति' इति न मे रसना व्यञ्जयितु प्रभवति । आर्य ! नास्ति किं सर्वक्षति For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy