________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चोत्थो ऊसासो सर्वाङ्गीणं हितं, अकलुषं च चित्तं, तेषां सर्वत्र सुखं सुखं सम्मुखीनम् । आपत्-समयेऽपि न शुष्यति तेषां आशा-निर्भरः । भयानकनिशीथेऽपि च दृष्टिपथं गच्छति दिनमुखम् । मिलति स्वयमेव विहित-शुभाशयविस्तारः अचिन्तितः परेषां अत्थारः (साहाय्यम्) । तस्मात् अस्ति उत्साहः किल सर्वसफलताया मूलम्, कल्पनानां कल्पवृक्षः, कामानां कामकुम्भः चिन्तितानां चिन्तामणिः पुनः ।
वर्धमानान्तरङ्गोत्साहः अनेकवयस्यैः परिवारितः, गुरुजनाशीभिः आश्वासितः, मङ्गलपाठकैर्मागधैः स्तुतः, सम्मुखं स्वयमुपस्थितैः शुभशकुनैः वर्धापिता, अनुकूलवातावरणैः चोदितः (प्रेरितः) च रत्नपालः मन्मनगृहात् निर्गतः । मध्येपथं मस्तकस्थापितपुष्पकरण्डिका अभिमुखं आगच्छन्ती मिलिता एका पुष्पचायिनी । 'बहु शुभं प्रस्थितानाम्' इति रत्नेन तत्कालं गृहीता पुष्प-करण्डिका दत्वा तस्यै मन्मनापितं लधुमुद्रादानम् । तस्यां दाडिमस्य धातक्याश्च सद्यस्कानि सुरभितानि पुष्पाणि आसन् । 'शुभानि' इति सुरक्षितानि तानि विवेकिना रत्नेन । परमेष्ठिपञ्चकं स्मरन् अनेक बाणोत्तरः ("मुनीम" इति भाषायाम्) सार्धं गुरुजनेभ्यः प्रणमन् यावद् आरोहति प्रवहणं तावदेकेन अनुभविना स्थविरेण आगम्य सूचितम्-'पुत्र ! यथेच्छं व्रज, लभस्व पूर्ण लाभम्, परन्तु मा व्रज कालकूटक-नामकं द्वीपम् । यतः तत्र गन्तारो विप्रलभ्यन्ते तत्रगतधूर्तशेखरैः' । 'हन्ता' (अभ्युपगमे) इति कथयता रत्नेन प्रतिपन्नं तस्य वचनम् । विमुक्ताः लङ्गरकाः ('लंगर'
भाषा । यथा-पुप्फच्चिणिआओ पुप्फलाईओ (पाइय० २१३) ५ फूलों की टोकरी ६ तीसे । ७ बाणोत्तरः 'गुमास्ता मुनीम' इतिभाषा (दे०) ।
For Private And Personal Use Only