________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तइओ ऊसासो
१०५ किञ्चिदपि श्रेष्टि-सकाशात् प्राप्स्यामि तस्य लाभं ग्रहीष्यामि स्वयमेव अहम्, न पश्चात् करिष्यामि तत् श्रेष्ठिनः पुनः । इति आकर्ण्य कदर्य-शेखरः मन्मनः 'किं अर्पयामि' इति संशयं प्राप्तः । अन्ते अतीव तुच्छत्व दर्शयता दृढमुष्टिना अर्पिता 'मेमुदी' नामिकी एका तात्कालिकी क्ष द्रा मुद्रा पारितोषिक-रूपेण । सर्वेषां दर्शकानां मनसि अतीव हीनत्वं प्राप्तः स कृपणः अनेन अतितुच्छ-दानेन । धिग् ! दृढमुष्टः निघृणं हृदयम्, निर्लज्जं दानम्, चिरपोषितेन पुत्र णापि कीदृशो व्यवहारः ? तथापि समयज्ञ न रत्नेन सानन्दं गृहीता साः । मस्तकस्थं कृत्वा सुरक्षित रक्षिता । भवतां कृपातः बहुलाभ-कारणं भविष्यति मे नूनं दानमिदं लघिष्ठं लक्ष्यमाणमपि । अथवा सूक्ष्ममपि न्यग्रोध-बीजं न कि महाविस्तार-कारकं भवति ?
इति श्री चन्दनमुनिविरचितायां प्रावृडागमामरचन्दनप्राप्ति-धनदत्तविप्रतारण-पुत्रपरिवर्धननिजपरिज्ञानादिभाव वितायां रत्नपालकथायां तृतीयः उच्छ्वासः समाप्तः
For Private And Personal Use Only