SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइओ ऊसासो कुत्रापि रति अलभमानः गृहं आगतः । एकस्मिन् अनास्तृते भूतले वाष्पा-कपोल-न्यस्त-वामहस्तः भूमि खनन नीरवं स्थितः । इतश्च मन्मनोऽपि मध्याह्नजेमनवेलां ज्ञात्वा मा बुभुक्षितः चिरं तिष्ठतु रत्नपालः पुत्रः इति सत्वरं हयं आगतः । परं न निरीक्षितो नयनचन्द्रो नन्दः। किं एतत्प्रभृति न प्रत्यावलितः ऋणं आनेतु गतः सः ? "भार्ये ! कि नागतः अधुनावधि तव कोड-क्रीडा-कारकः ? कथं त्वं पुत्र-चिन्ता-निरपेक्षा कार्यलग्ना तिष्ठसि ?" उट्टङ्कितं उच्चस्वरं मन्मनेन। 'इदानीमेव आगच्छन् ईषद् मे लोचनपथं प्राप्तः, पश्चात् कुत्र स्थितः इति न लक्षितो मया चपलचरितः सः' निवेदितं साश्चर्य भार्यया। 'कुत्र निलीनः एष' इति अधः उपरि अनुसन्धातु लग्नः मन्मनः झटिति विस्मय-खेद-मिश्रया दृष्ट्या । शुष्क-मुख-सरोजः वहद्वाष्पधारः अनुर्वीकृत-कन्धरः धरणिपृष्ठे स्थितः कृपणेन प्रेक्षितः पुत्रः। अव्वो । किमिदं, किमिदम् ? केन वाम-विधिना त्वं दुनः पुत्र ! रुदन् तिष्ठसि ? केन मदान्धेन तव अपराधः कृतः ? कस्य अप्रियं जीवितं यस्त्वां अवमन्यते ? नित्यं हसन्मुखः त्वं किणो (प्रश्ने) विमनोदुर्मनाः? किं न लब्धं त्वया यथेष्टं वस्तु ? किं अद्य खप्पुर-स्वभावया (रुक्षस्वभावया) तव मात्रा अधरितः ? किमथवा ऋणं अदातुकामेन For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy