SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अह तइओ ऊसासो सौम्य ! स एव आनन्दनो नन्दनः यः वंशोद्धारकारकः मातापितॄणां सुखजनक: पूर्वजानां च विक्षालित - नामधेयः दीप्यते । पश्य, न खेदेन किमपि भविष्यति, भविष्यति किल महापुरुषार्थेन सर्वम् अस्ति मे कल्पना त्वं अवश्यं शून्यं गृहं हरित भरितं करिष्यसि इति कथयित्वा सहृदयो वृद्धो विश्वस्त दृष्ट्या पुत्र रत्नं प्रलोकितु लग्नः । ू 2 अभूतपूर्व कर्णकण्टकायितं निजं अतीतं उदन्तं श्रुत्वा रत्नपालचित्रलिखितवत् मन्त्रकीलितवत् स्तब्धः, उद्विग्नः, विस्मितः, रोमा ञ्चितश्च जातः । हरे ! इतः प्रभृति न विदिता मया आत्मीया प्रवृत्तिः । हन्दि ! ( सत्यम् ) पिशुनितं तेन अधमर्णेन । वेव्वे (विषादे ) क्रीतदासोऽस्मि । अव्बो ! (पश्चात्तापे) दलयति में हृदयं मातापित्रोः तादृशी स्थितिः । थ ! निर्लज्जेन मे जीवनेन यस्य जन्मापि सर्वविध्वंसकारकम् । खु ! किं मया एतादृशं कलुषं आचरितम् ? ऊ ! केन न विज्ञातं मे कुलाङ्गारचरितम् । अम्मो ! कथं एतादृशं जातम् ? अइ ! (सम्भावने) दुःखितौ विद्यते मे परमश्लाघनीयौ पूज्यौ पितरौ । अहह ! यदि अहं गर्भात् अपतिष्यम् तर्हि पित्रोः न तादृशी स्थितिः अभविष्यत् । वरि (आनन्तर्ये ) किं कर्तव्यं मया ? अलाहि मुधा बहुचिन्तनेन इदानीम् । स्वयं सर्वं शुभं भावि पुरुषार्थेन, इत्यादि बहुविकल्प - विलोडित-हृदय- सागरः स्थविरं प्रणम्य झगिति ततः प्रचलितः । ६५ ३ उअ, पश्य इत्यर्थे ( ० २ - २११) ४ अइ संभावने ( हे० २- २०५ ) ५ आनन्तर्य ६ स्वयं । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy