________________
Shri Mahavir Jain Aradhana Kendra
श्री रणसिंह
www.kobatirth.org
श्रीमतो विजयपुरा — न्निःशेषो धार्मिको जनः । राजादि प्रमुखस्तीर्थ – यात्रा हेतोः समागमत् ॥ ५६ ॥ केचित्स्नात्रं पवित्रं च, सुगन्धिद्रव्य मिश्रितैः । शुद्धोदकैः प्रकुर्वन्ति, तैर्दत्तोऽधै जलाञ्जलिः ॥ ६० ॥ कर्पूरपूरमृगनाभिसुकुङ्कुमौघ, द्रव्यैर्विमिश्र मलयोद्भवचन्दनेन ।
बोभूयते किल जगद्गुरुचारुदेहे, कुर्वन् विलेपनमुदार जनो विलेपः ॥ ६१ ॥ कल्याणाम्बुजपारिजातकुसुमै रैकेतकीपल्लवैः
रक्ताशोक गुलाल वेउललसङ्गाङ्गेय - जाति ब्रजैः ॥ चञ्चश्चम्पकमालतीभिरनिशं येऽभ्यर्चयन्ति प्रभुम् ।
साम्राज्यं जगतोऽनुभूय शिव मां भुञ्जन्ति ते मानवाः ।। ६२ ।।
पष्टितंदुल लसत्कलमाह्वयैर्देव जीरगुरुड़ाख्य शालिभि ।
पुञ्जक त्रितयमीशितुः पुरो ये व्यधुः सुगति शोलिनस्तके ॥ ६६ ॥
पार्श्वनाथ पुरतो ननृतुर्य के हावभावनिवहैश्चतुराशयाः ।
अंगहारकरणावलि पूर्व, स्वर्गि सुन्दरिगणास्तदग्रतः ॥ ६४ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
----------
चरित्रम्
॥ ७॥