________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
विश्वाध्यक्षमथोवाच, कलिकालनराधिपः । ऊर्वीकृत्य स्वदोर्दण्डं, स्वौजः स्फूर्तिपराक्रमान् ॥ ६११ ॥
तद्यथा-(हरिणीप्लुतं छन्दः) अनृतपटुता चौर्य, चित्तं सतामपमानता, मतिरविनको धर्म, शाठ्य गुरुष्वपि वञ्चना ।
ललितमधुरा वाक् प्रत्यक्षं परोक्षविघातिनी, कलियुगमहाराजस्यैताः स्फुरन्ति विभूतयः ॥६४२॥ शाकिनीमन्त्रतुल्योऽसौ, व्यवहारः कलौ युगे। तरन्त्यसाधवो यत्र, निमज्जन्ति च साधवः ॥ ६१३ ॥ ये कुर्वन्ति जनाः प्रियाणि सततं सर्वस्य हेतु विना, ते निष्कारणबान्धवा विरलतां जाताः कलौ साधवः।
क्षुद्रैः स्वार्थपरैरपेतसुकृतैर्मायाविभिनिष्ठुरैः, प्राण्युद्ध गविधातृभिः खलजनैाप्त जगत्सांप्रतम् ॥ ६१४ ॥ न देवे देवत्वं कपटपटवस्तापसजनाः, जनो मिथ्याभाषी विरलतर वृष्टिर्जलधरः ।
प्रसङ्गों नीचानामवनिपतयो दुष्टमतयः, जनाः शिष्टा नष्टा अहह ! कलिकालव्यतिकरः ॥ ६१५ ॥ ___ धर्मः पर्वगतस्तपः कपटितं सत्यं च दूरे गतं, पृथ्वी मन्दफला नृपाः सुकुटिला द्रव्याने व्यंसना ।
।
For Private and Personal Use Only