________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
यतःशीलं सर्वगुणाधानं, शीलं दुर्गतिवारणम् । शीलं शाश्वतसौख्यस्य, कारणं गात्रभूषणम् ॥ ४१५ ॥ शीलं निधानं गुणरत्नराशेः, शीलं हि मूलं सुकृतद्रुमस्य ।
शीलं सदाचारविचारहेतुः, शीलं भवोत्तारणसारसेतुः ॥ ४१६ ॥ शीलप्रभावाद्विकरालकालो,-न्यालोऽपि पुष्पस्त्रजति प्रगन्धी।
क्ष्वेडं च पीयषति नीरराशि, गोपादति क्षीरति वीतहोत्रा ॥४१७ ॥ ततः स्वशीलरक्षार्थ, भूत्वा पुरुषवेषतः । तस्थौ पाडलिपुरतो,-ऽपाच्या चक्रपुरोत्तमे ॥ ४१८॥ विभ्रती पुष्पबटुता, चक्रभृद्द वतालये, । श्रीमती कमलवती, मृगाक्षी कमलानना ॥ ४१६ ॥ युग्मम् ॥ इतश्चागत्य सुभगो,---नत्वा कुमरमब्रवीत् । देवीपरित्यागकथां, सकलां च सगद्गदम् ॥ ४२० ॥ ततोऽपगतमन्त्रस्य, तन्त्रस्यापि प्रभावतः । कुमारः कुरुते पश्चा,---त्तापं सन्तापदीपकम् ॥ ४२१ ॥ सा जीवति किमद्यापि, मिध्यादोषेण दूषिता । मया पापात्मना देवी, किं गता पितृमन्दिरे ॥ ४२२ ॥
॥४१॥
For Private and Personal Use Only