________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
HASHA
श्रीरणसिंह H
| चरित्रम्
इतश्चोदय शैलस्य, चलालम्ब्यभवद्रविः । तयोः करुणयेव स्वान्, करान् वितनुते दिवि ॥ ३२६ ॥ गोसे केनापि पुसोक्तं, रणसिंहान्तिके मया । ददृशे नव्यनेपथ्या, नवोढा कमलावती ॥ ३३० ॥ तमाकर्ण्य नृपो भीमो, भृकुटी भीषणाननः । महाकोपारुणः कम्प,-कायः प्रस्फुरिताधरः ॥ ३३१ ॥ अनुगः सहस्रसङ्ख्यैः , पतदभ्रधरैर्भटैः। मरुत्पथं बधिरयन्, रणतूर्यरवोत्करैः ॥ ३३२ ॥ जयकुञ्जरमारूढो, भीमेन्द्रो हस्तिमल्लवत् । सिंहसैन्यं विनिर्जेतु,--माजगाम रणाङ्गणम् ॥ ३३३ ॥ भूपः कमलसेनोऽपि, शतपोवादिसद्भटैः। दुरिवारणगणैः, संनयागान्महीपतिः ॥ ३३४ ॥ सिंहवद् रणसिंहोऽपि, साहसैकमहानिधिः । सञ्जीकृतमहासेनो,-ऽभ्यधावद् भीमभूधवम् ॥ ३३५ ॥ स्वस्वस्वामिश्रियं जैत्री, काक्षतोः सैन्ययोद्धयोः । भटानां समरारम्भः, प्रावर्तत परस्परम् ॥ ३३६ ॥ मदोद्ध रैमत्तमतङ्गजोत्करैः, समं गजानां तुरगैश्च वाजिनाम् ।
भटैर्भटानां रथिनां रथस्थितैः, पुंभिर्धनुष्मन्निकरधनुष्मताम् ॥ ३३७ ॥ कुन्ताहता यत्र पतन्ति कुञ्जराः, खगैर्विभिन्नास्तुरगा स्तरस्विनः ।
प्रादुर्बभूवोल्वणरक्तवाहिनी, नानाविहङ्गावलिसकुला तदा ॥ ३३८ ॥
॥ ३३॥
For Private and Personal Use Only