________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ नमो जिनाय ॥
श्रीजिनभद्रसूरिसिध्य सिद्धान्त रुचि - वाचकानां शिष्य मुनिसोमगणि विरचितं
* श्रीरणसिंह चरित्रम् *
शुभ कर वर कर केवल — दिनकरकिरणैर्निरस्तमो हबलम् । प्रकटित भुवनोदरगत, जीवाजीवादि भावौघम् ॥ १ ॥ तं जगदीश्वरमेकं, श्रीवीरं सकलकर्मनिर्मुक्तम् । प्रणिपत्यातिशययुतं वक्ष्ये रणसिंहचरितलवम् ॥ २ ॥ जम्बूद्वीपाभिधेद्वीपे जम्बूवृक्षोपलक्षिते । अस्ति श्रीभरतक्षेत्रं, दक्षिणादिग्विभूषणम् ॥ ३ ॥ तत्रारिप्राप्तविजयं, विजयाख्यं पुरोत्तमम् । वसुन्धराशिरोरत्नं, रत्नवत्सर्वतोऽद्भुतम् ॥ ४ ॥ यत्र श्रीमज्जिनेन्द्राणां प्रासादाः संमदप्रदाः । क्षेत्रीणां मौक्षसौख्यानि यच्छन्तो ध्वजहस्ततः ॥ ५ ॥ प्रायोलोका गतशोका, छेकाः सद्धर्मकर्मसु । दानिनो मानिनो भोग, भोगिनो योगिनोऽनिशम् ॥ ६॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*B.IaF-8......NAMANSIIR