________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
श्रयतां भो महाभाग ! महोषध्याः प्रभावतः । नरीभूयाथ निर्गत्य, त्वत्प्रत्यक्षमिहाऽगमम् ॥ २५३ ॥ अथोत्पत्तिं महोषध्याः, शृणु चिन्तामणगुहम् । अगमाम वयं तत्रा,-न्यदाश्चर्यदिदृक्षया ।। २५४ ॥ विद्यभृन्मिथुनं तत्र, परिभ्राम्यदितस्ततः । उल्लङ्घनेन यक्षस्य, प्रासादोत्तुङ्गशृङ्गतः ॥ २५५ ॥ खाटकृत्य पापतदृष्टं, शिष्टाचार प्रलोपनात् । पूजोपचार व्यापार, व्याकुलं यक्षनाकिनः ॥ २५६ ॥ युग्मम् ॥ मैतस्या रूपमालोक्य, मत्प्रियो धनुरागभाक् । अमुष्यां दक्षमुख्यायां, बोभवीतु विहाय माम् ॥ २५७ ॥ इति चिन्ताप्रपञ्च न, सर्वतो न्याप्तया तया । खेचर्या वर्यया बड़ा, मम कर्णकटोरके ।। २५८ ॥ विद्याबलेनाऽविज्ञाता, महौषधी तदा मया । तावत्पर्यन्तमज्ञाता, यावत्तन्मिथुनं ययौ ॥ २५६ ॥ ततश्चात्मानमद्राक्षी,-न्नररूपमनुत्तरम् । मुष्टा केनापि दुष्टेन, विलपन्ती मुहुर्मुहुः ॥ २६० ॥ यानत्समग्रमप्यङ्ग, स्वीयं सम्यग् न्यलोकयत् । खेचर्या विस्मृता पश्यत्, कर्णाभ्यणे च मूलिका ॥ २६१॥ यावदुच्छोटयामास, तावत्स्वाभाविकं पुनः । अजनिष्ट विशिष्टाङ्ग, तद् दृष्ट्वा तुष्टिभागभूत् ।। २६२॥ ज्ञातस्तस्या महोषध्याः, प्रभावोऽयं महान्तः । संगोप्य रत्ननिधिवत्, तदा दधेतरां मया ॥ २६३ ॥
For Private and Personal Use Only