________________
Shri Mahavir Jain Aradhana Kendra
श्री रणसिंह
www.kobatirth.org
एवं त्रिकरणशुध्या, ङ्गीकृत्याभिग्रहं तदा । हर्षोत्कर्षेण चित्तेन तौ सिंहेनाभिवन्दितौ ॥ ६५ ॥ ततो लब्धिप्रयोगेण, तौ गतौ गगनाङ्गणे । पालयन्नियमं सिंहः, सिंहवत् क्षेत्र मागमत् ॥ ६६ ॥ कूर — करन्व – प्रमुखं, नैवेद्य पार्श्वनार्थवरभवने । प्रतिदिवस प्रतिदिवस, वितरति भक्त्यायुतः सिंहः ॥ ६७ ॥ चिन्तामण्याख्य – यक्षेण, तत्परीक्षार्थमान्यदा । दर्शयामास हर्यक्षः, किशोरपिङ्गलाक्षकः ॥ ६८ ॥ साक्षान्महिषध्वजव, – ६. धृ क्षोहयुग्रकेसरः । लांगूलास्फालितक्षोणि, – गुज्जद्गुज्जारवौद्वरः ॥ ६६ ॥ तस्याऽभिग्रह भङ्गाय, पार्श्वप्रासादमण्डपे । श्रीमण्डप इवात्यन्तं, सश्रीकेलोकतारके ॥१००॥ एवं वितर्कयामास तं वीक्ष्य निजचेतसि । सिंहों हि एष क एकाकी, रणसिंहोऽस्म्यहं पुनः ॥ १०१ ॥ तत्करिष्यत्यसौ किं मे, हकित्वेति खराक्षरैः । आक्रम्य पादघातेन, पुरो व्रजति यावता ॥ १०२ ॥ तावता काकनाशं स प्रणणाश मृगाधिपः । भृशं गवेश्यमाणोऽपि नादृश्यत कुत्रचित् ॥ १०३ ॥ कृत्वा नैवेद्य सत्पूजां क्षेत्रमागत्य यावता । भोक्तपोविशत्तावत् कुतोऽप्यागान्मुनिद्वयम् ॥१०४॥ लोचनानन्द कृद्वालं, ददद्धर्माशिषं पुरः । निरीहं निरहङ्कारं ददृशे भाग्ययोगतः ॥ १०५ ॥ युग्मम् ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रम्
॥ ११ ॥