________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीरणसिंह
चरित्रम्
तस्याङ्ग राजचिह्वान्य-, द्राष्टां लक्षणविद्वरौ । ततो निविश्य भूपीठे, चक्राते धर्मदेशनाम् ।। ७४ ।। रणसिंहोंऽपि तद्दत्त,-लोचना ज्ञानलोचनः । विनयावनतोऽश्रौषी-ल्ललाट घटिताञ्जलिः ॥ ७५ ॥ दुर्लभं दशदृष्टान्तै—ानुषं जन्म जन्मिनाम् । ततोऽपि चार्यदेशादि, सत्कुलं चाक्षपाटवं ।। ७६ ॥ दुर्लभः साधु संयोगोऽर्हद्धर्मश्रवणं ततः । दान-शील-तपो-भाव,-भेदात्तच्चतुर्विधम् ।। ७७॥ तत्र पञ्चविधं दानं, निदानं मुक्ति सम्पदः । स्वपरोपकृतौ हेतुः, प्रत्यपादि जिनोसमैः ॥ ७८ ।। शीलं सर्वगुणाधानं, शीलं परमभूषणम् । दुःखागोन्मूलने कीलं, शीलं सद्गति–साधनम् ॥ ७६ ॥ शीलपालनतोऽनेके, राजानो नारदादयः । सिद्धि सीमन्तिनी वक्षः, -स्थले हारंति नित्यशः ॥ ८० ॥ दुष्कर्माचल-कुलिशं, मनोमल -विशोधनम् । मन्त्रतन्त्रौषधी मुक्त, कार्मणं निर्वृतिश्रियः ॥ ८१ ॥ दुर्जेय करणग्राम, नागोग्रविषगारुडम् । सर्वलब्धिलतामूलं, तपो द्वादशधा स्मृतं ॥ ८२ ॥ युग्मम् ॥ वितीर्ण प्रचरं वित्तं, तप्तं तीव्र तपोधनम् । बहुधा शीलितं शीलं, निष्फलं भावनोज्झितम् ।। ८३ ॥ तिर्यञ्चोऽपि मृगव्याला, भावनातो दिवं गताः । सर्वेभ्यो भावनोत्कृष्टा, प्रख्याता प्रथिताऽऽर्हतः ।।८४ायुग्मम्।।
For Private and Personal Use Only