________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम काशवाणी कृता यद्यः पर्वतोक्तं करिष्यति स एव रोगान्मुक्तो नविष्यति. ततः पर्वतकेन पशुवधो. चरित्रं पेता यागाः प्ररूपिताः, कथितं च यः पशुवधोपेतं यागं करिष्यति तस्य समाधिनविष्यति, लोका
अप्येवं कर्तु लामाः, देवोऽपि तेषां समाधिं कृतवान् , बहिर्मुखा लोकाः किमपि तत्वं न जानंति, एकेन कृतं सर्वेऽपि कुर्वति, यतः-गतानुगतिको लोको । न डोकः परमार्थकः ॥ शोको राजकु. ले सर्वे । कुंतकृन्मदने मृते ॥ १ ॥ एवं पर्वतकेन जीवहिंसारूपा यागाः प्ररूपिताः, महाकालदेवे. न च वृधि नीताः, यथा-मातृमेधे वधो मातुः । पितृमेधे वधः पितुः ।। अंतर्यविधातव्यो । दोषस्तत्र न विद्यते ॥ १ ॥ इत्यादि समुपदिश्य सागरं स्वमते संस्थाप्यानेकान् यागान् काराप्य तस्य तेन समृछिर्दना. ततः सप्रत्ययो लोकः । प्राणिहिंसादिकान्मखान ॥ निःशंकमकरोत्तस्य । पर्वतस्य मते स्थितः ॥ १॥ सुलसासागरपुत्रेणानेके यज्ञाः कृताः, अजमेधे यज्ञे तेनाजा हताः, देवेन च ते जीवापिताः, एवमश्वमेधे तेनाश्वा हुतास्तेऽपि तेन जीवापिताः, मातृपितृमेधे स सु. लसासागरी जुहाव, यतः-सागरं सुलसायुक्तं । स जुहावाध्वरानले ॥ कृतकृत्यो जगामाय। म हाकालः स्वमाश्रयं ॥ १ ॥
For Private And Personal Use Only