SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम जिल्ला तौ परकूलं गतौ तत्राप्यार्यांनार्यान् साधयित्वा तैर्नृपैः परिवृतौ तस्माद्देशान्निवृत्तौ तौ लवांचरित्रं कुश पुंडरीकपुरमुपेयतुः. लोकोक्तिर्यतःयो धन्यो वज्रजंघो । यदीयजामिनंदनौ ॥ ईदृशाविति जल्पद्धि - वश्यमाणौ पुरीजनैः ३२२ ॥ १ ॥ जग्मतुः स्वगृहं वीरौ । नृपवीरैः समावृतौ ॥ प्रणेमतुश्च जानक्या - श्ररणौ विश्वपावनौ ॥ २ ॥ चुचुंब मूर्ध्नि तौ सीता । स्नपयंती मुदश्रुभिः || रामलक्षणयोस्तुल्यौ । नयास्तमिति चावदत् ॥ ३ ॥ पय तौ लवांकुशौ कतिचिद्दिनानि मातृसमीपे स्थितौ प्रयैकस्मिन दिने ताभ्यां नि. जमाता पृष्टा, हे मातस्तवाज्ञयावां रामलक्ष्मणौ पश्यावः, येन च त्वमेकाकिनी वने मुक्ता तस्य प राक्रमं पश्यावः एतद्दचनं श्रुत्वा सीता रुदंती जगाद, हे पुत्रौ युवयोः केयमनर्थेच्छा ? युवयोः पितृपितृव्यौ देवानामपि दुर्जयौ वर्तेते, यान्यां त्रैलोक्यकंटको राक्षसपतिः संग्रामे निहतः, तयोरग्रे के युवां ? केऽन्ये दैत्या वा दानवा वा मानवा वा ? छातो यदि युवयोः पितरं दृष्टुमुत्कंठा वर्तते तर्हि विनम्रीनूय पितृपितृव्ययोः पादौ युवां प्रणमतं, यतः पूज्ये हि विनयोऽर्हति तावूचतुर्हे मातस्तयोः कथं विनयः क्रियते ? तौ त्वावयोः शत्रू, येन त्वं निर्दोषापि दोषमुत्पाद्य वने त्याजिता, तो ज For Private And Personal Use Only.
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy