________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम-स्थितो रामः शृणोति, मालाकारो मालाकारों वक्ति, हे प्रिये त्वं कुत्र गतासि ? तयोक्तमहं सखीचरित्रं गृहे गतासं. मालिकेनोक्तं प्रमदाजनस्य निशायां गमनं न युक्तं, अतस्त्वमेकाकिनी निशायां यदि कस्यचिद्गृहे यास्यसि तदा त्वां गृहान्निष्कासयिष्यामि तत् श्रुत्वा मालाकार्याह जो प्राणप्रिय ! ३१० रामपत्नी सीता रावणगृहे षण्मासान् यावत् स्थिता, तथापि रामेण किमपि नोक्तं, तर्हि त्वं किं म्म पुनः पुनः कथयसि यन्निशायां न गंतव्यं किं त्वं रामादप्यधिकः ? मालाकारेणोक्तं हे प्रिये रामगृहे एवं वाजते. परं मम गृहे त्वेवं न वाजते, अतोऽतःपरं यदि निशायां कस्यापि गृहे या स्यसि तदा तव जीवितं नास्तीति तयोर्वार्ता श्रुत्वा श्रीरामचंद्रश्चिंतयति किं करोमि? अहं तु जानामि यत्सीता निष्कलंका, पुरा देवतयोक्तं मुनिनिश्चाप्युक्तं यदेषा सीता महासतो, परं लोकापवादादेनां त्यजामीति विचित्य रामेण लक्ष्मणाग्रे नक्तं, लक्ष्मणेनोक्तं नगरे पटहं वादयामि यद्यः कोsपि सीतां सकलंकां कथयिष्यति तं जीवितरहितं करिष्यामि, रामेणोक्तं भो बांधव ! एवं कृते जनापवादो भृशं जवेत. पुनर्लक्ष्मणेनोक्तं जो बांधव जनापवादात्सीतां मा त्यज ? यतो देवेन मुनिना चाप्युक्तं यदेषा महासती, हे रामचंद्र ! अतस्त्वमेनां मा त्यज ? एवं लक्ष्मणेनोक्तोऽपि रामः
For Private And Personal Use Only