________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- पुत्रोऽत्. ऋक्षपुराधीशस्य ऋदरजसो हरिकांताकुदिजौ नलनीलनामानावुजी सुनावतां इत चरित्रं श्वादित्यरजा राजा बलशालिने वालिने राज्यं दत्वा व्रतं खात्वा तपस्तप्त्वा शिवं ययौ, वालिराजापि सुग्रीव निजत्रातरं यौवराज्ये न्यधात. यतः - सम्यग्दृष्टिं च सुग्रीवं । न्यायवंतं महौजसं । सानुरूपं यौवराज्ये । सुग्रीवं वाढ्यपि न्यधात् ॥ १ ॥ अत्रांतरे रावणचैत्यवंदनार्थे वनालंकारगजारू
मंदोदर्या सहित मेरुपर्वते ययौ तस्मिन् समये मेघप्रजात्मजः खरदूषणविद्यावरचं नखां जातरागां जातरागो हत्वा पाताललंकां ययौ, तत्रस्थमादित्यरजसः सूनुं चंद्रोदरं निर्वास्य स्वयं तडा ज्यं जग्राह एतद्वृत्तांतं श्रुत्वा क्रुद्धं रावणं खरघाताय यांतं मंदोदरी वारयामास राजन् कोऽयं क दाग्रहः ? यतः कन्या ह्यवश्यं कस्मैचिद्देयैव, सूर्पणखया च स्वयमेवानुरूपो वरोऽसौ वृतोऽस्ति, तथैव सखरदुषणोऽपि ते विक्रमी सेवकोऽदृषणोऽस्ति यतोऽथ प्रधानपुरुषं प्रेष्य तयोरुद्दाहं कुरु ? प्रसद्य च तस्मै पाताललंकाराज्यं देहि ? एवं मंदोदर्या प्रेरितो रावणस्तथैव चक्रे ततः पाताललंकाराज्यं कुर्वन् खरदूषणः सूर्पणखया सह गोगान् बुद्धजे रावणाज्ञया.
तो निर्वासितचंद्रोदरो नृपोऽनुराधया पल्या सह वने गतः तत्रानुराधा गर्भिण्यवत् तस्मि
For Private And Personal Use Only.