________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
रामचरित्रं
१५६
क यासि रे दुरात्मन्नित्युक्त्वा स तत्पृष्टे चंचुप्रहारान् ददौ. एवं रावणहृदयं नखैर्विदारयन् पुनः पुनश्च वचसा तर्जयन स तदनु दधावे. ततो दशग्रीवो जटायुप्रति ऋछो दारुणं खममाकृष्य तत्प दो चिबेद, तेन स पतत्र नमी पपात. अथ निःशंको दशग्रीवः सीतां पुष्पकविमाने समारोप्य पूर्णप्रायमनोरयस्तूर्ण ननसा चचाल. ननसा हीयमाणा सीता तरूनपि रोदयंती रुरोद, तदा त. सीतारुदितमर्कजटिनंदनो रत्नजटिविद्याधरोऽशृणोत्, तदा स चिंतयति नूनमेष रामपत्न्याः शब्दः समुडोपरि श्रूयते, नूनं रामलक्ष्मणौ बलितो, रावणेन चेयं सीता हीयते. तदा स जामंडलसेवको रत्नजटी खामाकृष्य रावणंप्रति दधावे बनाये च रे दुष्ट! मत्प्रनोनगिनी सीतां हृत्वा क यास्य सि? रे निर्लज्ज! रे कुलाधम ! रे कुलपांशन! घ्युक्त्वा यावता स खापदारं ददाति तावता द. शाननः स्वविद्यासामर्थ्यतस्तस्य सर्वा विद्यां सद्यः संजहार, तेन स छिन्नपदः पदीव त्वरितं कंबूढीपे कंबूशैलोपरि पतितः, रावणोऽपि विमानस्थो व्योम्ना गबन समुडोपरि संचरन् कामातुरो मैथि ली प्रोचे, हे सुंदरि! चरखेचरनरेंद्राणामधीश्वरं मां त्वमवैहि ? तस्य च त्वमग्रमहिषी नषिष्यसि, अतस्त्वं हर्षस्थाने विषादं मा कुरु ? सृतं विषादेन, किं नृयो रोदिषि? सृतं दुःखेन, सुखं जव? |
For Private And Personal Use Only