________________
Shri Mahavir Jain Aradhana Kendra
२ द्वितीय वर्गः ]
www.kobatirth.org
राजनिघण्टु सहितः ।
यवानी ( यवानीविशेषः) ॥ २२ ॥
यवानी यावनी तीव्रा तुरुष्को मदकारिणी ।
गुणाः - यवानी यावनी रूक्षा ग्राहिणी मादिनी कटुः ॥ ९४ ॥ ( ३७ ) वृक्षाम्लम् ।
वृक्षाम्लं तित्तिडीकं च शाकाम्लं रक्तपूरकम् । अम्लवृक्षोऽम्लशाखः स्यादपरोऽम्लमहीरुहः ॥ ९५ ॥
गुणाः - तित्तिडीकं च वातघ्नं ग्राह्यष्णं रुचिकृल्लघु । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
Acharya Shri Kailassagarsuri Gyanmandir
वृक्षाम्लमम्लशाकं स्याच्चुक्राम्लं तित्तिडीफलम् । शाकाम्लमम्लपूरं च पूराम्लं रक्तपूरकम् ।। १४३ || चूडाम्लबीजाम्लफलाम्लकं स्यादम्लादिवृक्षाम्लफलं रसाम्लम् । श्रेष्ठाम्लमत्यम्लमथाम्लवीजं फलं च चुक्रादि गजेन्दुसंख्यम् ।। १४४ ।
गुणाः - वृक्षाम्लमम्लं कटुकं कपायं सोष्णं कफार्शोन्नमुदीरयन्ति । तृष्णासमीरोदरहृद्वदादिगुल्मातिसारत्रणदोपनाशि || १४५ ।।
१२
८९
( ३८ ) अम्लः ( अम्लवेतसम् )
अम्लोऽम्लवेतसो भीमो रसाम्लो वीरवेतसः । रक्तस्रावी वेतसाम्ल: शतवेधी च भेदकः ॥ ९६ ॥
गुणाः कषायं कटु रूक्षोष्णमम्लवेतसकं विदुः । तृट्कफानिलजन्त्वर्शोहृद्धांधाश्मरिगुल्मजित् ॥ ९७ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
अम्लोऽम्लवेतसो वेधी रसाम्लो वीरवेतसः । वेतसाम्लश्चाम्लसारः शतवेधी च वेधकः || १४६ ।। भीमश्र भेदनो भेदी राजाम्लश्चाम्लभेदनः । अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ।। १४७ ।। सहस्रवेधी वीराम्लो गुल्मकेतुर्धराभिधः । शङ्खमांसादिद्रावी स्याद्विधा चैवाम्लवेतसः || १४८ ॥ गुणाः—अम्लवेतसमत्यम्लं कषायोष्णं च वातजित् । कफार्शः श्रमगुल्मनमरोचकहरं परम् ।। १४९ ॥
( ३९ ) अजमोदा |
अजमोदा बस्तमोदा दीप्यको लोमर्कटः । खराद्दा कारवी वल्लिमदा इस्तिमयूरका ।। ९८ ।।
१. वातवेधी |
For Private and Personal Use Only