________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः- [शतपुप्पादिकोगुणाः-अजमोदा च शूलघ्नी तिक्तोष्णा कफवातजित् । हिक्काध्मानारुचिं हन्ति कृमिजिद्वह्निदीपनी ॥ ९९ ॥
___ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः__ अजमोदा खराद्वा च बस्तमोदा च मर्कटी । मोदा गन्धदला हस्तिकारवी गन्धपत्रिका ॥ १५० ॥ मायूरी शिखिमोदा च मोदाव्या वह्निदीपिका । ब्रह्मकोशी विशाली च हृद्यगन्धोग्रगन्धिका ॥ १५१ ॥ मोदिनी फलमुख्या च विंशत्याख्यासुवाचका।
गुणाः-अजमोदा कटुरुष्णा रूक्षा कफवातहारिणी रुचिकृत् । स्थूलाध्मानारोचकजठरामयनाशनी चैव ॥ १५२ ॥
(४०) अजगन्धा। अजगन्धा खरपुष्पा बस्तगन्धा विगन्धिका । कारवी बर्बरा गन्धा तुङ्गी पूतिमयूरिका॥ १०॥
गुणाः-अजगन्धा वातहरा वीर्योष्णा तु ज्वरापहा । गुल्माष्ठीलाकफानाहशूलजिद्वह्निकृत्परा ॥ १०१॥
राजनिघण्टौ शताहादिश्चतुर्थो वर्गःअजगन्धा वस्तगन्धा सुरपुष्पी विगन्धिका । उपगन्धा ब्रह्मगर्भा ब्राह्मी पूतिमयूरिका ॥ १५३ ॥
गुणाः-अजगन्धा कटूष्णा स्याद्वातगुल्मोदरापहा । कर्णव्रणार्तिशूलनी पीता चेदञ्जने हिता ॥ १५४ ॥
(४१) कपित्थः। कपित्थोऽथ दधित्थस्तु ग्राही गन्धफलश्च सः । अक्षसस्यो दधिफलचिरपाकी कपिप्रियः ॥ १०२॥
गुणाः-*कपित्थमाममस्वर्य कफन्नं ग्राहि वातलम् । *कफानिलहरं पकं मधुराम्लरसं गुरु ॥ १०३ ॥ श्वासकासारुचिहरं तृष्णाघ्नं कण्ठशोधनम् ॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:मालूरस्तु कपित्थो मङ्गल्यो नीलमल्लिका च दधि । ग्राहिफलश्चिरपाकी ग्रन्थिफलः करभवल्लभश्चैव ॥ १५५ ॥ दन्तशठः कठिनफलः करण्डफलकश्च सप्तदशसंज्ञः। गुणाः—कपित्थो मधुराम्लश्च कषायस्तिक्तशीतलः । वृष्यः पित्तानिलं १ ङ. 'वी तग्रगन्धा च तु। २ ड. ही पत्रः सुपत्रकः । ।३ क. ख. 'क्षशाको द।
For Private and Personal Use Only