________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
धन्वन्तरीयनिघण्टुः-- [शतपुष्पादिकोराजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःमरिचं पलितं श्यामं कोलं वल्लीजमूषणम् । यवनष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् ॥ १३५ ॥ कटुकं च शिरोवृत्तं वीरं कफविरोधि च । रूक्षं सर्वहितं कृष्णं सप्तभूख्यं निरूपितम् ॥ १३६ ॥
गुणाः मरिचं कटु तिक्तोष्णं लघुश्लेष्मविनाशनम् । समीरकृमिहृद्रोगहरं च रुचिकारकम् ॥ १३७॥
मरीचम् ( मरीचविशेषः ) ॥२०॥ मरीचं शुभ्रमरिचं बीजं शियोस्तु शिग्रुजम् ॥ गुणाः—नात्युष्णं नातिरूक्षं च वीर्यतो मरिचं सितम् । पित्तकोपकरं तीक्ष्णं रूक्षं रोचनदीपनम् ॥ ९० ॥ रसे पाके च कटुकं कफन्नं मरिचं लघु ।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:सितमरिचं तु सिताख्यं सितवल्लीजं च बालकं बहुलम् । धवलं चन्द्रकमेतन्मुनिनाम गुणाधिकं च वश्यकरम् ॥ १३८॥
गुणाः–कटूष्णं श्वेतमरिचं विषघ्नं भूतनाशनम् । अवृष्यं दृष्टिरोगन्नं युक्त्या चैव रसायनम् ॥ १३९ ॥
(३६) यवानी ( दीप्यकम् ) यवानी दीपको दीप्यो यवसाहो यवाग्रजः। यवानिकोग्रगन्धा च दीपनीया च दीपनी ॥ ९१ ॥ ___ गुणाः—यवानी कटुतिक्तोष्णा वातश्लेष्मद्विजामयान् । हन्ति गुल्मोदरं शूलं दीपयत्याशु चानलम् ॥ ९२ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःयवानी दीप्यको दीप्यो यवसाह्वो यवाग्रजः । दीपनी चोग्रगन्धा च वातारिर्भूकदम्बकः ॥ १४०॥ यवजो दीपनीयश्च शूलहन्त्री यवानिका । उग्रा च तीव्रगन्धा च ज्ञेया पञ्चदशाह्वया ॥ १४१ ॥
गुणाः-यवानी कटुतिक्तोष्णा वाताः श्लेष्मनाशनी । शूलाध्मानकृमिच्छर्दिमर्दनी दीपनी परा ॥ १४२ ॥
यवानिका ( यवानीविशेषः ) ॥ २१ ॥ यवानिका यवानी स्याचौहारो जन्तुनाशनः । गुणाः--चौहारस्तद्गुणः प्रोक्तो विशेषात्कृमिनाशनः ॥ ९३ ॥
१ ज. झ. ढ. कपिवि। २ ख. झ, यवानिका । ३ ग. 'मविषाम' ।
For Private and Personal Use Only