________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७
२ द्वितीयो वर्गः ] राजनिघण्टुसहितः।
गुणा:-स्निग्धोष्णा कटुका शुण्ठी वृष्या शोफकफारुचीन् । हन्ति वातोदरश्वासपाण्डूश्लीपदनाशिनी ॥ ८३ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः*। विश्वौषधं कटुग्रन्थि कटुभद्रं कटूषणम् ॥१२९॥ सौपर्ण शृङ्गबेरंच कफारिश्वाऽऽ स्मृतम् । शोषणं नागरात च विज्ञेयं षोडशाह्वयम् ॥ १३० ॥
गुणाः-शुण्ठी कटूष्णा स्निग्धा च कफशोफानिलापहा । शूलबन्धोदराध्मानश्वासश्लीपदहारिणी ॥ १३१ ॥
आर्द्रकम् ( शुण्ठीविशेषः ) ॥ १९ ॥ आईकं गुल्ममूलं च मूलज कन्दलं वरम् । शृङ्गबेरं महीजं च सैकतेष्टमनूपजम् ॥ ८४ ॥ अपाकशाकमार्दाख्यं राहुच्छत्रं सुशाककम् । शार्ङ्ग स्यादाशाकं च सच्छाकं मुनिभह्वयम् ॥ ८५ ॥
गुणाः-*कटूष्णमाकं हृद्यं विपाके शीतलं लघु । *दीपनं रुचिदं शोफकफकण्ठामयापहम् ॥ ८६ ॥ कफानिलहरं स्वयं विबन्धानाहशूलजित् । कटूष्णं रोचनं वृष्यं हृद्यं चैवाऽऽकं स्मृतम् ॥ ८७ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:-- आर्द्रकं गुल्ममूलं च मूलज कन्दलं वरम् । शृङ्गबेरं महीजं च सैकतेष्टमनूपजम् ॥ १३२ ॥ अपाकशाकं चाऽऽर्द्राख्यं राहुच्छत्रं सुशाककम् । शार्ङ्ग स्यादाईशाकश्च सुशाकं मुनिभूवयम् ॥ १३३ ॥ गुणाः-* * ॥ १३४ ॥
(३५) मरिचम् । मरिचं पलितं श्यामं वल्लीज कृष्णमूषणम् । यवनेष्टं शिरोवृत्तं कोलकं धर्मपत्तनम् ॥ ८८ ॥
गुणाः—मरिचं कटु तिक्तोष्णं पित्तकृच्छ्लेष्मनाशनम् । वायुं निवारयत्येव जन्तुसंताननाशनम् ॥ ८९ ॥
__ + ख. पुस्तक इमे श्लोका दृश्यन्ते'शुण्ठी स्यात्कफवातघ्नी कटुवृष्याऽऽमपाचनी । विपाके कटुतिक्तोष्णा स्वादुः स्निग्धाऽनिकृत्सरा॥ नागरं कफवातघ्नं विपाके मधुरं कटु । स्निग्धोष्णं रोचनं हृद्यं सस्नेहं लघु दीपनं ॥ प्रातरुत्थाय कोष्णेन वारिणा परिकीर्तितम् । मन्दाग्निदीपनं मुख्यं यत्पिवेद्विश्वभेषजम् ॥ वातशले विबन्धे च सामदोषे च मार्दवे । नागराम्बु सदा पथ्यं जीर्णाजीर्णविशङ्किनः '॥
१ ८. 'जं स्मृ । २ ग, , मलिनं । ३ झ. चर्मपत्रकम् ।
For Private and Personal Use Only