________________
Shri Mahavir Jain Aradhana Kendra
८६
www.kobatirth.org
धन्वन्तरीयनिघण्टुः
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:वनादिपिप्पली (पिप्पलीविशेषः ) ।। १७ ।।
----
Acharya Shri Kailassagarsuri Gyanmandir
[ शतपुष्पादिको
वनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानमेतत् । क्षुद्रादिपिप्पल्यभिधानयोज्यं वनाभिधापूर्वकणाभिधानम् ।। १२२ ।।
गुणाः -- वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी । आमा भनेणाढ्या तु शुष्का स्वल्पगुणा स्मृता ॥ १२३ ॥ ( ३३ ) चित्रकः ( चित्रकम् )
चित्रको दहनो व्यालः पौठिनो दारुणोऽग्निकः । ज्योतिको बहरी वह्निः पॉली पाठी कटुः शिखी ||८०|| कृष्णारुणोऽनलो द्वीपी चित्रभानुश्च पावकः । गुणाः - चित्रकोऽग्निसमः पाके कटुकः कफशोफजित् । वातोदराशग्रहणीक्षयपाण्डुविनाशनः ।। ८१ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:--
चित्रकोऽग्निश्च शार्दूलचित्र : पाली कटुः शिखी । कृशानुर्दहनो व्यालो ज्योतिष्कः पालकस्तथा || १२४ || अनलो दारुणो वह्निः पावकः शबलस्तथा । पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश्च विंशतिः ।। १२५ ।।
गुणाः -- चित्रकोऽग्निसमः पाके कटुः शोफकफापहः । वातोदराशग्रहणी - कृमिकण्डूतिनाशनः ।। १२६ ।।
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः
कालः (चित्रकविशेषः ) ।। १८ ।।
कालो व्यालः कालमूलोऽतिदीप्यो मार्जारोऽनिर्दाहकः पावकञ्च । चित्राङ्गोऽयं रक्तचित्रो महाङ्गः स्यादुद्रावचित्रकोऽन्यो गुणाढ्यः ॥ १२७ ॥
गुणाः स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः । रसे नियामको लोहे वेधकच रसायनः || १२८ ।।
( ३४ ) शुण्ठी ।
* शुण्ठी महौषधं विश्व नागरं विश्वभेषजम् । विश्वौषधं शृङ्गवेरं कटुभद्रं तथाssर्द्रकम् ।। ८२ ।।
For Private and Personal Use Only
१झ. द्राचपि । २ झ. ढ
योग्यं व' । ३ ग. घ. पाठीरो । ४ ग. छ. तिष्कश्चारुणो वह्निः । ७ ग. पाठी पाठिः शठः शिखी । ६ क्र. घ. ङ. 'तू । प्लीहोद' । ७ ख ङ. 'णीकृमिकण्डु | ८ झ. 'चित्रपाली कुठः शि ।